________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- - [गुडूच्यादिःवत्सादनी स्मृता ॥१॥ सैवोक्ता सोमवल्ली च कुण्डली चक्रलक्षणा । प्रोक्ता नागकुमारी च च्छिन्नाङ्गी ज्वरनाशिनी ॥२॥ जीवन्ती मधुपर्णी च तत्रिका देवनिर्मिता । वयस्था मण्डली सौम्या विशल्याऽमृतसंभवा ॥ ३॥ पिण्डामृता बहुच्छिन्ना सा चोक्ता कन्दरोहिणी । रसायनी मृत्तिका च चन्द्रहासा भिपग्जिता ॥४॥ कन्या कन्दोद्भवा कन्दाऽमृतकन्दा गुडूचिका ।
गुणाः—गुडूची स्वरसे तिक्ता कषायोष्णा गुरुस्तथा। त्रिदोषजन्तुरक्तार्श:कुष्ठज्वरहरा परा ॥५॥ गुडूच्यायुष्पदा मेध्या तिक्ता संग्राहिणी वला । ज्वरतृट्पाण्डुवातासक्छर्दिमहत्रिदोषजित् ॥ ६॥ गुडूची कफवातघ्नी पित्तमेदोविशोषिणी । रक्तवातप्रशमनी कण्डूविसर्पनाशिनी ॥ ७ ॥ * कन्दोद्भवा गुडूची च कटूष्णा संनिपातहा। *विषघ्नी ज्वरभूतनी वलीपलितनाशिनी ॥ ॥ ८॥ अन्यच्च-घृतेन वातं सगुडा विबन्धं पित्तं सिताब्या मधुना कर्फ च । वातास्रमुग्रं रुवुतैलमिश्रा शुण्ठ्याऽऽमवातं शमये डूची ॥ ९ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःज्ञेया गुडूच्यमृतवल्लयमृता ज्वरारिः श्यामा वरा सुरकृता मधुपर्णिका च । छिन्नोद्भवाऽमृतलता च रसायनी च च्छिन्ना च सोमलतिकाऽमृतसंभवा च ॥ ॥१॥ वत्सादनी छिन्नरुहा विशल्या भिषप्रिया कुण्डलिनी वयस्था । जीवन्तिका नागकुमारिका च स्याच्छमिका सैव च चण्डहासा ॥२॥ अन्या कन्दोद्भवा कन्दामृता पिण्डगुडूचिका । बहुच्छिन्ना वहुरुहा पिण्डालुः कन्दरोहिणी ॥ ३ ॥ पूर्वा चाब्धिकराहा स्यादुत्तरा लोकसंज्ञिका । गुडूच्योरुभयोरित्थमेकत्रिंशदिहाभिधाः ॥ ४॥
गुणाः-ज्ञेया गुडूची गुरुरुष्णवीर्या तिक्ता कपाया ज्वरनाशिनी च । दाहार्तितृष्णावमिरक्तवातप्रमेहपाण्डुभ्रमहारिणी च ॥५॥ * * ॥ ६ ॥
(२) 'अतिविषा । ( उपविषम् ) अतिविषा शुक्लकन्दा ज्ञेया विश्वा च भङ्गुरा । श्यामकन्दा प्रतिविषा शृङ्गी चोपविषा विषा॥१०॥आर्द्रा श्वेता विरूपा च विषदा पित्तवल्लभा। गुणप्रियाऽतिसारनी बालानां रोगनाशिनी ॥ ११ ॥ __ गुणाः-*कटूष्णाऽतिविषा तिक्ता कफपित्तज्वरापहा । *आमातीसारकासनी विषच्छर्दिविनाशिनी ॥ १२ ॥
+ अतिविषाशोधनम्-दोलायां गोमयक्वाथे पचेदतिविषां तथा । सूर्यतापे भवेच्छुष्का योजयेत्तां भिषग्वरैः ॥
१क, ग. टच. कासाश्च वि' ।
For Private and Personal Use Only