________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ मिश्रकादिः७ सप्तमो वर्गः ] राजनिघण्टुसहितः। टलावानां कोकिलोलूकभोगिनाम् ॥ १३ ॥ भेकादीनां च *विण्मूत्रैर्मेदोत्वग्रोमसंयुतैः । धूपं दद्याज्ज्वरातेभ्य उन्मत्तेभ्यो विशेषतः ॥ १४ ॥ अपस्माराभिभूतेभ्यो ग्रहातेभ्यस्तथैव च । प्राप्नुयादायुरारोग्यं बलवर्ण मनः स्थिरम् ॥ १५ ॥ योगानेतान्समाश्रित्य मांसद्रव्यसमाश्रयान् । द्रव्यावलिः समादिष्टा धन्वतरिमुखोद्गता ॥ १६ ॥
सुवर्णादिरयं वर्गः षष्ठ उक्तो यथाक्रमम् ॥ धातुद्रव्यद्रवद्रव्यमांसद्रव्यसमाश्रयः ॥ ६ ॥
॥ इति सुवर्णादिः षष्टो वर्गः ॥ ६ ॥ अथ मिश्रकादिः सप्तमो वर्गः॥७॥ मिश्रको व्यस्तरोगाणां विषाण्यष्टादशापि च । उपविषाणि सर्वाणि तथा प्रशमनानि च ॥ १॥ क्षेपकम्- (एकार्थद्वयर्थव्यानि नानार्थानि तथैव च ।) एतत्सर्व समासेन वक्ष्याम्यत्र यथाक्रमम् । योगानेतान्प्रयुञ्जीत पुरुषे नित्यमात्मवान् ॥ २॥ सत्सु पूजामवाप्नोति परत्रेह च विन्दति । शतत्रयं च द्रव्याणां त्रिसप्तत्यधिकोत्तरम् ॥ ३ ॥ हिताय वैद्यविदुषां द्रव्यावल्यां प्रकाशितम् । गणद्रव्यावली ऍक्ता संयोगा सहमात्रया । पर्यायनामान्युच्यन्ते गुडूच्यादेयेथाक्रमम् ॥ ४॥
____ ॥ इति मिश्रकः सप्तमो वर्गः ॥ ७ ॥
इति धन्वन्तरीये गणद्रव्यावली समाप्ता । अथ धन्वन्तरीयनिघण्टुः ( राजनिघण्टुसहितः )
तत्र गुडूच्यादिः प्रथमो वर्गः । धन्वन्तरिपदद्वंद्वं नत्वा लोकहितार्थिनाम् । रसवीर्यविपाकादि द्रव्याणां कथ्यते मया ॥
(१) गुडुची। गुडूच्यमृतवल्ली च च्छिन्ना छिन्नरुहाऽमृता । छिन्नोद्भवाऽमृतलता धारा * 'चरके'-अविमूत्रमजामूत्रं गोमूत्रं माहिषं तथा ।
हस्तिमूत्रमथोष्ट्रस्य हयस्य च खरस्य च ॥ १॥ + 'मेदिन्याम्'-व्यस्तो व्याकुले व्यापिते वा ।
१ छ. तेभ्यो विशेषतः । प्रा । २ छ. 'नःस्विनाम् । ३ छ. थानघम् । ४ छ. 'स्तयोगाश्च वि। ५ छ. नन्दति । ६ छ द्यपुत्राणां द्र। ७ छ. ह्येषा सगुणोक्ता मयाऽधुना । प।
For Private and Personal Use Only