________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
धन्वन्तरीयनिघण्टुः- [आम्रादिःगुणाः-महापारेवतं गौल्यं बलकृत्पुष्टिवर्धनम् । वृष्यं मूर्जाज्वरघ्नं च पूर्वोक्तादधिकं गुणैः ॥ ९१॥
(१९) तालः । (तालम्, ताडः) तालो ध्वजद्रुमः प्रांशुर्दीर्घस्कन्धो दुरारुहः। तृणराजो दीर्घतरुर्लेख्यपत्रो द्रुमेश्वरः ॥ ६८ ॥
गुणाः-फलं स्वादुरसं पाके तालजं गुरु पित्तजित् । तद्धीजं स्वादु पाके तु मूलं स्याद्रक्तपित्तजित् ॥ ६९ ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःतालस्तालद्रुमः पत्री दीर्घस्कन्धो ध्वजद्रुमः । तृणराजो मधुरसो मदाढ्यो दीर्घपादपः ॥ ९२ ॥ चिरायुस्तरुराजश्च गजभक्षो दृढच्छदः । दीर्घपत्रो गुच्छपत्रोऽप्यासवद्रुश्च पोडश ॥ ९३ ॥
गुणाः---तालच मधुरः शीतपित्तदाहश्रमापहः। सरश्च कफपित्तनो मदकृद्दाहशोपनुत् ॥ ९६ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः
श्रीतालः । ( तालविशेषः ) ॥ ११ ॥ श्रीतालो मधुतालश्च लक्ष्मीतालो मृदुच्छदः । विशालपत्रो लेखा: मपीलेख्यदलस्तथा ॥ ९५ ॥ शिरालपत्रकश्चैव याम्योद्भूतो नवाह्वयः ।
गुणाः-श्रीतालो मधुरोऽत्यन्तमीपञ्चैव कषायकः । पित्तजित्कफकारी च वातमीपत्रकोपयेत् ॥ ९४ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः
हिन्तालः । ( तालविशेषः ) ॥ १२ ॥ हिन्तालः स्थूलतालश्च वल्कपत्रो बृहद्दलः । गर्भस्रावी लतातालो भीषणो बहुकण्टकः ॥९७ ॥ स्थिरपत्रो द्विधालेख्यः शिरापत्रः स्थिराधिपः । अम्लसारो बृहत्ताल: स्याच्चतुर्दशधाभिधः ॥ ९८॥
मुगुणाः-हिन्तालो मधुराम्लश्च कफकृत्पित्तदाहनुत् । श्रमतृष्णापहारी च शिशिरो वातदोषनुत् ।। ९९ ।।
माडः ( तालविशेषः ) ॥ १३ ॥ _* माडो माडगुमो दीर्घो ध्वजवृक्षो वितानकः । मद्यद्रुमो मोहकारी मददुर्ऋजुरङ्कथा ॥ ७० ॥
१ क. ङ. 'त् । बीजं तु स्वादुपाके स्यान्मूलं तु रक्त ।
For Private and Personal Use Only