________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमो वर्गः] राजनिघण्टुसहितः।
१८१ गुणाः--परूषकफलं चाम्लं वातनं पित्तकृद्गुरु । तदेव पकं मधुरं वातपित्तनिबर्हणम् ॥ ६३॥
राजनिघण्टावाम्रादिरेकादशो वर्गःपरूपकं नीलपर्ण गिरिपीलु परावरम् । नीलमण्डलमल्पास्थि परुषं च 'परुस्तथा ॥ ८४ ॥
गुणाः-परूपमम्लं कटुकं कफातिजिद्वातापहं तत्फलमेव पित्तदम् । सोष्णं च पकं मधुरं रुचिप्रदं पित्तापहं शोफहरं च पीतम् ॥ ८५ ॥
(१७) तूलम् । तूलं तूदं च यूपं च क्रमुकं ब्रह्मकाष्टकम् । ब्रह्मदारु ब्राह्मणेष्टं ब्रह्मण्यं ब्रह्मचारिणम् ॥ ६४॥
गुणाः—तूलस्य च फलं स्वादु बलवर्णाग्निदृद्धिकृत् । तूलं तु मधुराम्लं स्याद्वातपित्तहरं परम् ॥ ६५ ॥ दाहपशमनं वृष्यं कषायं कफनाशनम् ।
राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:तूलं तूदं ब्रह्मकाष्ठं ब्राह्मणेष्टं च यूपकम् । ब्रह्मदारु सुपुष्पं च सुरूपं नीलवृन्तकम् ॥ ८६ ॥ क्रमुकं विप्रकाष्ठं च मृदुसारं द्विभूमितम् । गुणाः-तूलं तु मधुराम्लं स्याद्वातपित्तहरं सरम् । * ॥ ८७॥
(१८) पालेवतम्। पालेवतं रैवतकं ज्ञेयमारेवतं तथा । महापालेवतं चोक्तं रक्तपालेवतं तथा ॥ ६६ ॥ पालेवतं सितं पुष्पैस्तिन्दुकाभफलं मतम् । अन्यन्माणवकं ज्ञेयं महापालेवतं तथा ॥ ६७ ॥ गुणाः—पालेवतं तु मधुरं स्निग्धं हृद्यं समीरजित् ।
राजनिघण्टावाम्रादिरेकादशो वर्गःपारेवतं तु रैवतमारेवतकं च किंच रैवतकम् । मधुफलममृतफलाख्यं पारेवतकं च सप्ताहम् ॥ ८८॥
गुणाः—पारवतं तु मधुरं कृमिवातहारि वृष्यं तृपावरविदाहहरं च हृद्यम् । मूर्छाभ्रमश्रमविशोपविनाशकारि स्निग्धं च रुच्यमुदितं बहुवीर्यदायि ॥ ८९ ॥ महापारेवतं चान्यत्स्वर्णपारेवतं तथा । साम्राणिजं खारिकं च रक्तरैवतकं च तत् ॥ ९० ॥ बृहत्पारवतं प्रोक्तं द्वीपजं द्वीपखर्जुरी।
१ क ङ. ‘त्तलं गुरु । २ क. ङ. दैवतकं । ३ ज. सम्राडनी ।
For Private and Personal Use Only