________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमो वर्गः] राजनिघण्टुसहितः।
१८३ गुणाः-माडस्तु शिशिरो रुच्यः कपायः पित्तदाहकृत् । तृष्णापहो मरुकारी श्रमहच्छ्लेष्मकारकः ॥ ७० ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः*। * ॥ १० ॥ गुणाः-*। * ॥ १०१ ॥
(२०) प्रियालः (प्रियालम्, प्रियालकः ) प्रियालोऽथ खरस्कन्धश्वारो बहुलवल्कलः । स्नेहवीजश्चापवटो ललनस्तापसप्रियः॥७२॥
गुणाः-वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम् । चारस्य च फलं पकं स्वाद्वम्लं दुर्जरप्रियम् ॥ ७३ ॥ चारमज्जा समधुरा वृष्या पित्तानिलापहा ।
राजनिघण्टावाम्रादिरेकादशो वर्गःचारः खद्रुः खरस्कन्धो ललनश्वारकस्तथा । बहुवल्कः प्रियालश्च नवगुस्तापसप्रियः ॥ १०२ ॥ स्नेहवीजवापवटो भक्षबीजः करेन्दुधा ।।
गुणाः-चारस्य च फलं पकं वृष्यं गौल्याम्लकं गुरु । तद्बीजं मधुरं वृष्यं पित्तदाहार्तिनाशनम् ॥ १०३ ॥
(२१) नारिकेलः ( नाडिकेलः, नालिकेरकम् ) नारिकेलो रसफलः सुंतुङ्गः कूर्चशेखरः । तालवृक्षो दृढफलो लागली दाक्षिणात्यकः ॥ ७४ ।।
गुणाः-नारिकेलं गुरु स्निग्धं पित्तलं स्वादु शीतलम् । बलमांसप्रदं दृष्यं बृंहणं वस्तिशोधनम् ॥ ७४ ॥
राजनिघण्टावाम्रादिरेकादशो वर्गःनारिकेलो रसफलः सुतुङ्गः कूर्चशेखरः । दृढनीलो नीलतरुमङ्गल्योचतरुस्तथा ॥ १०४ ॥ तृणराजः स्कन्धतरुर्दाक्षिणात्यो दुरारुहः । लागली त्र्यम्बकफलस्तथा दृढफलस्थितिः ॥ १०५॥
गुणाः–नारिकेलो गुरुः स्निग्धः शीतः पित्तविनाशनः । अर्धपक्कस्तृषाशोपशमनो दुर्जरः परः ॥ १०६ ॥ नालिकेरसलिलं लघु बल्यं शीतलं च मधुरं गुरु पाके । पित्तपीनसतृषाश्रमदाहशान्ति शोषशमनं सुखदायि ॥ १०७ ॥ पकमेतदपि किंचिदिहोक्तं पित्तकारि रुचिदं मधुरं च ।दीपनं बलकरं गुरु वृष्यं वीर्यवर्धनमिदं तु वदन्ति ॥ १०८॥
१ क. ख. ङ. रो हि बहुव । २ क. ङ. सुगन्धः ।
For Private and Personal Use Only