________________
Shri Mahavir Jain Aradhana Kendra
१७८
www.kobatirth.org
धन्वन्तरीयनिघण्टुः
Acharya Shri Kailassagarsuri Gyanmandir
[ आम्रादिः -
राजनिघण्टावा म्रादिरेकादशो वर्ग:
अन्यो जलमधूको मङ्गल्यो दीर्घपत्रको मधुपुष्पः । क्षौद्रप्रियः पतङ्गः कीरेष्टो गैरिकाक्षश्च ।। ५९ ।।
गुणाः मधूकपुष्पं मधुरं च वृष्यं हृद्यं हिमं पित्तविदाहहारि । फलं च वातामयपित्तनाशि ज्ञेयं मधूकद्वयमेवमेतत् ।। ६० ।।
(१२) पीलुः ( पीलुक: )
पीलः शीतः सहस्रांशी धानी गुडफलोऽपि च । विरेचनफलः शाखी श्यामः करभवल्लभः ॥ ५१ ॥
गुणाः – रक्तपित्तहरः पीलुः फलं कटु विपाकि च । अर्शोघ्नं वस्तिशमनं सस्नेहं कफवातजित् ।। ५२ ।। पीलुजं च रसं स्वादु गुल्मार्शोघ्नं तु तीक्ष्णकम् । राजनिघण्टावाम्रादिरेकादशो वर्ग:
पीलुः शीतः सहस्रांशी धानी गुडफलस्तथा । विरेचनफलः शाखी श्यामः करभवल्लभः ।। ६१ ॥
गुणाः – अङ्काह्नः कटुकः पीलुः कषायो मधुराम्लकः । सरः स्वादुश्च गुल्मार्शः शमनो दीपनः परः ॥ ६२ ॥ अन्यश्चैव बृहत्पीलुर्महापीलुर्महाफलः । राजपीलुर्महावृक्षो मधुपीलुः षडाहयः ।। ६३ ।।
गुणाः - मधुरस्तु महापीलुर्वृष्यो विषविनाशनः । पित्तप्रशमनो रुच्य आमनो दीपनीयः ॥ ६४ ॥
(१३ ) खर्जूरी | (खर्जूरम् )
खर्जूरी तु खरस्कन्धा कषाया मधुराग्रजा । दुष्प्रधर्षा दुरारोहा निःश्रेणी स्वादुमस्तका ॥ ५३ ॥
गुणाः---क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु । रसे पाके च मधुरं खर्जूरं रक्तपित्तजित् ।। ५४ ।।
राजनिघण्टावाम्रादिरेकादशो वर्गः --
For Private and Personal Use Only
खर्जूरी तु खरस्कन्धा दुष्प्रधर्षा दुरारुहा । निःश्रेणी च कषाया च यवनेष्टा हरिप्रिया ।। ६३ ।।
गुणाः - खर्जूरी तु कषाया च पक्का गौल्यकषायका । पित्तघ्नी कफदा चैव कृमिकृदृष्यबृंहणी || ६६ ॥
१ क. ङ. रा रा । दु ।