________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५ पञ्चमो वर्गः ]
राजनिघण्टुसहितः ।
१७७
गुणाः- तिन्दुकश्च कपायोऽम्लो गुरुर्वातविकारकृत् । पक्कस्तु मधुरः किंचि - त्कफकृत्पित्तवान्तिहृत् ॥ ५३ ॥
(१०) विकङ्कतः । ( विकङ्कतम्, विशाखा )
विकङ्कतो मृदुफलो ग्रन्थिलः स्वादुकण्टकः । गोपघोटः काकपादो व्याघ्रपादोऽथ किङ्किणी ॥ ४३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः -- गोपघोटा रसे तिक्ता शीतला शोफनाशनी । हन्ति श्लेष्माणमत्युमुद्रक्तं हन्ति योगतः ॥ ४४ ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः
――
विकङ्कतो व्याघ्रपादो ग्रन्थिलः स्वादुकण्टकः । कण्टपादो बहुफलो गोपघोटा स्रुमः || ५४ ।। मृदुफलो दन्तकाष्टो यज्ञियो ब्रह्मपादपः । पिण्डरोहिणकः पूतः किङ्किणी च त्रिपञ्चधा ॥ ५५ ॥
गुणाः - विकङ्कतोऽम्लो मधुरः पाकेऽतिमधुरो लघुः । दीपनः कामलासनः पाचनः पित्तनाशनः ॥ ५६ ॥
(११) मधुकः । ( मधुकम्, रेवती )
मधुको मधुक्षस्तु मधुष्ठीलो मधुस्रवः । गुडपुप्पो लोधपुष्पो वानप्रस्थोऽथ
माधवः ।। ४५ ॥
गुणाः:-* * ॥ ५८ ॥
गुणाः --*मधुकं मधुरं शीतं पित्तदाश्रमापहम् । वातलं न तु दोषघ्नं वीर्यपुष्टिविवर्धनम् ॥ ४६ ॥ बृंहणीयमहृद्यं च मधूककुसुमं गुरु । वातपित्तोपशमनं फलं तस्योपदिश्यते ॥ ४७ ॥
राजनिघण्टावाम्रादिरेकादशो वर्ग:
मधुको मधुक्षः स्यान्मधुष्टीलो मधुस्रवः । गुडपुष्पो लोधपुष्पो वानप्रस्थथ
माधवः ।। ५७ ।।
जलदः । ( मधुकविशेषः ) ॥ ८ ॥
मधुकोऽन्यो द्वितीयस्तु जलदो दीर्घपत्रकः । ह्रस्वपुष्प: फलस्वादु : गौडिकोऽथ मधूलिका ॥ ४८ ॥ अन्यो जलमधूकस्तु मधुपुष्पो जलाख्यकः । रसपुष्पो दीर्घपत्र गोरको मधुपुष्पिकः ॥ ४९ ॥
गुणाः - ज्ञेयो जलमधूकस्तु मधुरो वणनाशनः । वृष्यो वान्तिहरः शीतो बलकारी रसायनः ॥ ५० ॥
१ ङ. छ. गोपकण्टः । २ क ङ. वृक्षः स्यान्मधु । ३ गो गौरिकाल्यो मधुलिका । 1
२३
For Private and Personal Use Only