________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमो वर्गः] राजनिघण्टुसहितः।
१७५ चिश्चा तु चुक्रिका चुक्रा साम्लिका शाकचुक्रिका । अम्ली सुतित्तिडी चाम्ला चुक्रिका च नवाभिधा ॥ ३६॥
गुणाः-चिञ्चाऽत्यम्ला भवेदामा पका तु मधुराम्लिका । वातघ्नी पित्तदाहास्रकफदोषप्रकोपनी ॥ ३७॥ ___तथाच-अम्लिकायाः फलं त्वाममत्यम्लं लघु पित्तकृत् । पकं तु मधुराम्लं स्या दि विष्टम्भवातजित् ॥ ३८ ॥ पकचिश्चाफलरसो मधुराम्लो रुचिप्रदः। शोफपाककरो लेपाव्रणदोपविनाशनः ॥ ३९ ॥ चिञ्चापत्रं च शोफनं रक्तदोषव्यथापहम् । तस्य शुष्कत्वचाक्षारं शूलमन्दाग्निनाशनम् ॥ ४० ॥ अम्लसारम्-अम्लसारस्तु शाकाम्लं चुक्राम्लं चाम्लचुक्रिका । चिञ्चाम्लमम्लचूडश्च चिञ्चासारोऽपि सप्तधा ॥४१॥
गुणाः-अम्लसारस्त्वतीवाम्लो वातघ्नः कफदाहकृत् । साम्येन शर्करामिश्रो दाहपित्तकफार्तिनुत् ॥ ४२ ॥
क्षुद्राम्लिका ( अम्लिकाविशेषः ) ॥ ७ ॥ क्षुद्राम्लिका तु चाङ्गेरी लोणिका चाम्ललोणिका । लोला लोणा चतुप्पी सेव दन्तशठा मता ॥ ३६॥
गुणाः-चाङ्गेरी कफवातनी ग्राहिण्युष्णा च पित्तकृत् । अम्ला क्षुद्राम्लिका प्रोक्ता स्वादूप्णा सकपायका ॥ ३७ ॥ ग्रहण्यर्थीविकारघ्नी आमवातकफे हिता। ___ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः
क्षुद्राम्लिका तु चाङ्गेरी चुक्राहा चुक्रिका च सा । लोणाम्लिका चतुष्पर्णी लोणा लोडाम्लपत्रिका ॥ ४३ ॥ अम्बष्ठाऽम्लवती चैव अम्ला दन्तशठा मता । शस्त्रागा चाम्लपत्री च ज्ञेया पश्चदशाह्वया ॥४४॥
गुणाः-क्षुद्राम्ली च रसे साम्ला सोष्णा सा वह्निवर्धनी । रुचिकृद्रहणीदोपदुर्नामन्त्री कफापहा ॥ ४५ ॥
(७) आरुकम् । ( आरुकः ) *आरुकं वीरसेनं तु वीरं वीरानकं तथा । विद्याज्जातिविशेषेण तच्चतुर्विधमारकम् ॥ ३८॥ गुणाः-~-आरुकाणि च हृयानि मेहार्शीनाशनानि च ।
१ क. ड, लोटिका. । २ क. ङ. 'लोटिका । झ. त. 'लोडिका । ३ क, 'नि महाझे । ख. 'नि मोहाशों।
For Private and Personal Use Only