________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
धन्वन्तरीयनिघण्टुः
[ आम्रादिःस्यान्मातुलिङ्गं सदा ॥२९॥ अन्यच्च-त्वक्तिक्ता दुर्जरा स्यात्कृमिकफपवनध्वंसिनी स्निग्धमुष्णं मध्यं शूलातिपित्तप्रशमनमखिलारोचकनं च गौल्यम् । वातातिघ्नं कटूष्णं जठरगदहरं केसरं दीप्यमम्लं बीजं तिक्तं कफार्शःश्वयथुशमकरं बीजपूरस्य पथ्यम् ॥ ३० ॥
___ मधुकर्कटी । (बीजपूर्णविशेषः ) ॥५॥ बीजपूर्णोऽपरः प्रोक्तो मधुरो मधुकर्कटी । मधुवल्ली च विज्ञेया वर्धमाना महाफला ॥ ३१॥
गुणाः-मधुकर्कटिका स्वादुः शीता पित्तास्रजिद्गुरुः । एषा त्रिदोषजिदृष्या रुचिकृच्चैव दुर्जरा ॥ ३२॥
राजनिघण्टावाम्रादिरेकादशो वर्गःअथ मधुरवीजपूरो मधुपर्णी मधुरकर्कटी मधुवल्ली । मधुकर्कटी मधुरफला महाफला वर्धमाना च ॥ ३१ ॥
गुणाः-मधुकर्कटी मधुरा शिशिरा दाहनाशिनी । त्रिदोपशमनी रुच्या वृष्या च गुरुदुर्जरा ॥ ३२॥
राजनिघण्टावाम्रादिरेकादशो वर्गः
वनबीजपूरकः । ( वीजपूर्णविशेषः ) ॥६॥ वनवीजपूरकोऽन्यो वनजो वनपूरकश्च वनबीजः । अत्यम्ला गन्धाढ्या वनोद्भवा देवदूती च ॥ ३३ ॥ पीता च देवदासी देवेष्टा मातुलिङ्गिका चैव । पवनी महाफला च स्यादियमिति वेदभूमिमिता ॥ ३४ ॥
गुणाः—अम्लः कटूष्णो वनबीजपूरो रुचिप्रदो वातविनाशनश्च । स्यादम्लदोषः कृमिनाशकारी कफापहः श्वासनिषूदनश्च ॥ ३५ ॥
(६) आम्लिका । अम्लिका चुक्रिका चुक्रा साम्ला शुक्ताऽथ शुक्तिका । अम्लिका चिञ्चिका चिञ्चा तित्तिडीका सुतित्तिडी ॥ ३३ ॥
गुणाः-अम्लिकायाः फलं चाम्लमैत्यन्तं पित्तकृल्लघु । रक्तकद्वातशमनं बस्तिशुद्धिकरं परम् ॥ ३४ ॥ पकं तु मधुराम्लं च भेदि विष्टम्भि वातजित् । त्वग्भस्म स्यात्कषायोष्णं कफघ्नं त्वनिलापहम् ॥ ३५ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः
१ ट. 'मुक्तं म । २ ज. स्यादामदो । ३ क. ' मत्युष्णं पि।
For Private and Personal Use Only