________________
Shri Mahavir Jain Aradhana Kendra
५ पञ्चमो वर्गः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजनिघण्टुसहितः ।
राजनिघण्टा वा म्रादिरेकादशो वर्ग:
नारङ्गः स्यान्नागरङ्गः सुरङ्गस्त्वग्गन्धश्चैरावतो वक्त्रवासः । योगी रङ्गो योगरङ्गः सुरङ्गो गन्धाढ्योऽयं गन्धपद्मो वीष्टः || २४ ॥
गुणाः- नारङ्गं मधुरं चाम्लं गुरूष्णं चैव रोचनम् । वातामकृमिशूलघ्नं श्रमहृद्भलरुच्यकम् ।। २५ ॥
(५) बीजपूर्णः ( बीजपूरकम् )
वीजपूर्णो बीजपूर : केसरी फैलपूरकः । वीजकः केसराम्लश्च मातुलुङ्गः सुपू रकः ।। २२ ।। वराम्लो बीजको लुङ्गो रुचको मध्यकेसरः । कृमिघ्नो गन्धकुसुमः केसरी सिन्धुपादपः ॥ २३ ॥
१७३
गुणाः श्वासकासारुचिहरं तृष्णानं कण्ठशोधनम् । लघुष्णं दीपनं हेयं मातुलिङ्गमुदाहृतम् ।। २४ ।। त्वक्तिक्ता दुर्जरा तस्य वातकृमिकफापहा । स्वादु शीतं गुरु स्निग्धं मांसमारुतपित्तजित् ॥ २५ ॥ मेध्यं शूलाविच्छर्दिनं कफारोचकनाशनम् । दीपनं लघु संग्राहि गुल्मार्शोघ्नं तु केसरम् ।। २६ ।। पित्तमारुतक्रुद्वल्यं पित्तलं बद्धकेसरम् । हृद्यं वर्णकरं रुच्यं रक्तमांसवलप्रदम् ॥ २७ ॥ शूलाजीर्णविवन्धेषु मन्दात्रौ कफमारुते । अँपची श्वासकासेषु रसस्तस्योपयुज्यते ॥ २८ ॥ रसोऽतिमधुरो हृद्यो वीर्यपित्तानिलापहः । कफकुडुर्जरा पाके मातुलिङ्गजटा कटुः || २९ ।। मूलं चैव कृमीन्हन्ति पुष्पवीजं च गुल्मजित् । अन्यच्च — चेतोहारी रसेन प्रथयति कटुतामम्लतां चापि धत्ते हृद्रोगोदानगुल्मश्वसनकफहरः प्लीहेकोपापहन्ता । वीर्यादर्शासि कासग्रहणिमपहरत्यग्निकृत्पाचनोऽयं संधत्ते रक्तपित्तं परिणतिसमये केसरो मातुलिङ्गयाः ॥ ३० ॥
-
राजनिघण्टावा म्रादिरेकादशो वर्ग:
वीजपुरो वीजपूर्णः पूर्णवीजस्त केसरः । बीजकः केसरोऽम्लश्च मातुलिङ्गः सुपूरकः ।। २६ ।। रुचको वीजफलको जन्तुघ्नो दन्तुरत्वचः । पूरको रोचनफलो द्विदेवनिसंमितः ॥ २७ ॥
गुणाः — वीजपूर फलमम्लकदृष्णं श्वासकासशमनं पचनं च । कण्ठशोधनपरं लघु हृद्यं दीपनं च रुचिकृत्पवनं च ।। २८ ।। तथा च - बालं पित्तमरुत्कफास्रकरणं मध्यं च तादृग्विधं पक्कं वर्णकरं च हृद्यमथ तत्पुष्णाति पुष्टिं बलम् । शूलाजीर्णविबन्धमारुतकफश्वासार्तिमन्दाग्निजित्कासारोचकशोफशान्तिदमिदं
For Private and Personal Use Only
१ ज. वरिष्ठः । २ ङ. छ. वीजपूरकः । ३ क. ङ. 'ष्णाहृत्कण्ठ' । ४ क. ङ. लघुप्रदी । ५ क. ङ. रुच्यं । ६ क. ख. 'त्तनुत् । ७ क. अरुचिश्वा । ८ ख. द्यो विषपि ।९ ण. 'हकाले यह ।