________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
धन्वन्तरीयनिघण्टुः
[ आम्रादिः -
अन्यच्च - जम्बीरं गुरु नात्यम्लं वातश्लेष्मविवन्धहृत् ।। १६ ।। कटुकमधुरमम्लं सुप्रतीतं रसे स्यादुचिकरमुदरास्तर्पणं चातिसारि । हरति कफसमीरौ पित्तमाहन्ति वीर्यकरणमपि न हृद्यं रक्तपित्तं तनोति ॥ १७ ॥
राजनिघण्टावानादिरेकादशो वर्ग:
जम्बीरो दन्तशठो जम्भो जम्भीरजम्भलौ चैव । रोचनको मुखशोधी जाड्यारिर्जन्तु जिन्नवधा ॥ १८ ॥
गुणाः - जम्बीरस्य फलं रसेऽम्लमधुरं वातापहं पित्तकृत्पथ्यं पाचनरोचनं वलकरं विवृद्धिप्रदम् । पकं चेन्मधुरं कफार्तिशमनं पित्तास्रदोषापनद्वर्ण्य वविवर्धनं च रुचिकृत्पुष्टिप्रदं तर्पणम् ।। १९ ॥
मधुजम्बीरः ( जम्बीरविशेषः ) ॥ ३ ॥
अन्यो मधुजम्बीरो मधुजम्वीरफलश्चान्यः । शङ्खद्रावी शर्करकः पित्तद्रावी च पदसंज्ञः ॥ १८ ॥
गुणाः -*मधुरो मधुजम्बीरो शिशिरः कफपित्तजित् । *शोषघ्नस्तर्पणो वृष्यः श्रमन्नः पुष्टिकारकः ।। १९ ।।
राजनिघण्टावाम्रादिरेकादशो वर्ग:
अन्यो मधुजम्वीरो मधुजम्भो मधुरजम्भलचैव । * ॥ २० ॥
गुणाः । * ॥ २१ ॥
राजनिघण्टावा म्रादिरेकादशो वर्गः
निम्बूकः ( जम्बीरविशेषः ) ॥ ४ ॥
निम्बुकः स्यादम्लजम्बीरकाख्यो वह्निर्दीप्यो वह्निबीजोऽम्लसारः । दन्ताघातः शोधनो जन्तुमारी निम्बूकः स्याद्रोचनो रुद्रसंज्ञः ।। २२ ।।
गुणाः - निम्बूफलं प्रथितमम्लरसं कदुष्णं गुल्मामवातहर मग्निविवृद्धिकारि । चक्षुष्यमेतदथ कासकफार्तिकण्ठविच्छर्दिहारि परिपकमतीव रुच्यम् ॥ २३ ॥ ( ४ ) नारङ्गः ( नारङ्गम् )
नारङ्गस्त्वक्सुगन्धश्च नागरङ्गो मुखभियः । स चैरावतिकः प्रोक्तो योगी वक्त्राधिवासनः ॥ २० ॥
गुणाः- आम्लं समधुरं हृद्यं विपदं भक्तरोचनम् । वातनं दुर्जरं प्रोक्तं नारङ्गस्य फलं गुरु ।। २१ ॥
१ झ. भुक्तरेचनम् । २ क. ख. ङ. म् । दुर्जरं वातशमनं ना ।
For Private and Personal Use Only