________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमो वर्गः] राजनिघण्टुसहितः। गुणाः-राजाम्रयुगुलं चाम्लमुष्णवीर्य च पित्तलम् ।
राजनिघण्टावाम्रादिरेकादशो वर्ग:राजाम्रोऽन्यो राजफलः स्मराम्रः कोकिलोत्सवः । मधुरः कोकिलानन्दः कामेष्टो नृपवल्लभः ॥ ८ ॥ अन्यो महाराजचूतो महाराजाम्रकस्तथा । स्थूलाम्रो मन्मथावासष्टको नीलकपित्थकः ॥९॥ कामायुधः कामफलो राजपुत्रो नृपात्मनः । महाराजफलः कामो महाचूतस्त्रयोदश ॥ १० ॥ तस्यापि श्रेष्ठतोऽन्याम्रो रसालो वद्धपूर्वकः । ज्ञेयश्चक्रलताम्रश्च मध्वाम्रः शितजाम्रकः ॥ ११ ॥ वैनेज्यो मन्मथानन्दो मदनेच्छाफलो मुनिः।
गुणाः-राजाम्राः कोमलाः सर्वे कवम्लाः पित्तदाहदाः । सुपकाः स्वादुमाधुर्याः पुष्टिवीर्यवलप्रदाः ॥ १२॥ राजामेषु त्रिपु प्रोक्तं साम्यमेव रसाधिकम् । गुणाधिकं तु विज्ञेयं पर्यायादुत्तरोत्तरम् ॥ १३ ॥ __ अपि च वालं राजफलं कफास्रपवनश्वासातिपित्तप्रदं मध्यं तादृशमेव दोपबहुलं भूयः कषायाम्लकम् । पकं चेन्मधुरं त्रिदोषशमनं तृष्णाविदाहश्रमश्वासारोचकमोचकं गुरु हिमं वृष्यातिचूताह्वयम् ॥ १४ ॥ आम्रत्वचा कषाया च मूलं सौगन्धितादृशम् । रुच्यं संग्राहि शिशिरं पुष्पं तु रुचिदीपनम् ॥ १५॥
(२) आम्रातकः । ( आम्रातः) आम्रातकः पीतनकः कपिचूतोऽम्लवॉटकः । *शृङ्गी कपी रसाठ्यश्च तनुक्षीरः कपिप्रियः ॥१२॥
गुणाः-आम्रातकफलं वृष्यं पित्तास्रकफवह्निकृत् । शीतं कषायं मधुरं किंचिन्मारुतकृद्गुरु ॥ १३ ॥
राजनिघण्टावाम्रादिरेकादशो वर्गःआम्रातकः पीतनकः कपिचतोऽम्लवाटकः। * ॥ १६ ॥ गुणाः-आम्रातकं कपायाम्लमाम हत्कण्ठहर्षणम् । पकं तु मधुराम्लाख्यं स्निग्धं पित्तकफापहम् ॥ १७ ॥
(३) जम्बीरः । ( जम्बीरम् ) जम्बीरो जम्भलो जम्भः प्रोक्तो दन्तशठस्तथा । गम्भीरो वक्त्रशोधी च रोचनो दन्तहर्षणः ॥ १४ ॥
गुणाः-तृष्णाशूलकफोक्लेशच्छर्दिवासनिवारणः । वातश्लेष्मविबन्धनं जम्बीरं गुरु पित्तलम् ॥ १५ ॥
१ ज. ट. 'श्वकालुता । २ च. ट. 'ध्वानोऽशि । ३ ट. वनेष्टो । ४ इ. छ. वातकः ।
For Private and Personal Use Only