SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७० धन्वन्तरीयनिघण्टुः- [ आम्रादि:रसं स्वादु वातघ्नं बृंहणं गुरु ॥५॥ पित्तावरोधिसंपकमानं शुक्रविवर्धनम् । मधुरं बृंहणं वल्यं गुरु विष्टम्भ्यजीर्णकृत् ॥ ६॥ सहकाररसो हृद्यः सुरभिः स्निग्धरोचनः । त्वङमूलपल्लवं ग्राहि कषायं कफपित्तजित् ॥ ७॥ पकानं सकपायाम्लं भेदनं कफवातजित् । हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम्॥८॥ राजनिघण्टावाम्रादिरेकादशो वर्गःआम्रः कामशरश्चूतो रसालः कामवल्लभः । कामाङ्गः सहकारश्च कीरेष्टो माधवद्रुमः ॥ १॥ भृङ्गाभीष्टः सीधुरसो मधूली कोकिलोत्सवः । वसन्तदूतोऽम्लफलो मदाव्यो मन्मथालयः॥२॥ मध्वावासः सुमदनः पिकरागो नृपप्रियः । प्रियाम्बुः कोकिलावासः स प्रोक्तस्त्रिकराह्वयः ॥ ३ ॥ ___ गुणाः-आम्रः कषायाम्लरसः सुगन्धिः कण्ठामयन्नोऽग्निकरश्च बालः। पित्तप्रकोपानिलरक्तदोपप्रदः पटुत्वादिरुचिप्रदश्च ॥ ४ ॥ ___ अपि च-वालं पित्तानिलकफकरं तच्च बद्धास्थि तादृक्पकं दोषत्रितयशमनं स्वादु पुष्टिं गुरुं च । दत्ते धातुप्रचयमधिकं तर्पण कान्तिकारि ख्यातं तृष्णाश्रमशमकृतौ चूतजातं फलं स्यात् ॥ ५॥ क्षुद्राम्रः। ( आम्रविशेषः ) ॥२॥ क्षुद्राम्रः स्यात्कृमितरुाक्षावृक्षो जतुद्रुमः । सुकोशको घनस्कन्धः कोशाम्रश्च सुरक्तकः ॥९॥ ___ गुणाः-कोशाम्रोऽम्लः कटुः पाके वीर्योष्णोऽथानिलापहः । कफपित्तकरो रुच्यः कुष्ठनो रक्तशोधनः ॥ १० ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग:कोशाम्रश्च घनस्कन्धो वनाम्रो जतुपादपः । क्षुद्राम्रश्चेति रक्ताम्रो लाक्षावृक्षः सुरक्तकः ॥६॥ गुणाः-कोशाम्रमम्लमनिलापहरं कफातिपित्तप्रदं गुरु विदाहविशोफकारि । पकं भवेन्मधुरमीपदपारमम्लं पट्वादियुक्तरुचिदीपनपुष्टिवल्यम् ॥ ७॥ राजाम्रः ( आम्रविशेपः ) ॥२॥ राजाम्र उक्त आम्रान्तो मन्मथोद्भवनस्तथा । टङ्को नीलकपित्थोऽन्यो राजपुत्रो नृपात्मजः ॥ ११ ॥ १ ख. नुत् । २ क. ङ. 'चकः ।। ३ ख. ङ. क्षुद्राम्र उक्तः कोशाम्रो लाक्षावृक्षः सरक्तकः । जन्तुक्षा धनस्कन्धः कृमिवृक्षः सुकोशकः । सु। छ. क्षुद्रोऽन्य उक्तः कोशाम्रो लाक्षावृक्षः सुरक्तकः । सु। ग For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy