________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८ धन्वन्तरीयनिघण्दुः
[करवीरादि:वर्गेतराणि
(१) बलामोटा। बलामोटा सूक्ष्ममूला हरिता च जया स्मृता । विजया च जयन्ती च तथा चैवापराजिता ॥१॥
गुणाः-विषघ्नी तिक्तकटुका कफपित्तसमीरजित् । अपराजिता केशरुहा तथा चैव नियोजिता ॥२॥ विजया नागदमनी निःशेषविषनाशनी । विषमोहप्रशमनी महायोगेश्वरीति च ॥ ३ ॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःजयन्ती तु बलामोटा हरिता घ जया तथा । विजया मूक्ष्ममूला च विक्रान्ता चापराजिता ॥१॥
गुणाः-ज्ञेया जयन्ती गलगण्डहारी तिक्ता कटूष्णाऽनिलनाशनी च । भूतापहा कण्ठविशोधनी च कृष्णा तु सा तत्र रसायनी स्यात् ॥ २॥
(२)सोमवल्ली। सोमवल्ली यज्ञनेत्री सोमक्षीरी द्विजमिया। गुणाः—सोमवल्ली त्रिदोषघ्नी कदुस्तिक्ता रसायनी ॥ ४ ॥ __ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:
सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता । सोमारे गुल्मवल्ली च यज्ञवल्ली द्विजामिया ॥ ३ ॥ सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यया।
गुणाः—सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् । तृष्णाविशोषशमनी पावनी यज्ञसाधनी ॥
(३) पोतकी । पोतकी पोतका प्रोक्ता मत्स्या काली सुरङ्गिका । गुणाः—पोतकी शीतला स्निग्धा श्लेष्मला वातपित्तजित् ॥ ५ ॥
(४) अर्शीघ्नः। अर्शोघ्नः सूरणः कन्दः कन्दाहः कन्दवर्धनः । दुर्नामारिः सुवृत्तिश्च वातारिः कन्दसूरणः ॥६॥
* *अर्शोघ्नस्यास्य, अस्मिन्नेव वर्गे पूर्व गते कोनविंशन्मितेन( २९) गृष्टिना सह संवद्वत्वेनात्र संग्रहः कृतः।
१ज मदगन्धयुक्ता।
For Private and Personal Use Only