________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७
४ चतुर्थो वर्गः] राजनिघण्टुसहितः।
(५४) बिसम् (मृणालम् ) विसं मृणालं बिसिनी मृणाली स्यान्मृणालिका । मृणालकं पद्मनालं तण्डुलं नलिनीरुहम् ॥ १६१ ॥
गुणाः-अविदाहि विसं प्रोक्तं रक्तपित्तप्रसादनम् । विष्टम्भि मधुरं रूक्षं दुर्जरं वातकोपनम् ॥ १६२॥
राजनिघण्टौ करवीरादिर्दशमो वर्ग:मृणालं पद्मनालं च मृणाली च मृणालिनी । बिसं च पद्मतन्तुश्च बिसिनी नलिनीरुहम् ॥ २५८ ॥
गुणाः-मृणालं शिशिरं तिक्तं कषायं पित्तदाहजित् । मूत्रकृच्छ्रविकारघ्नं रक्तवान्तिहरं परम् ॥ २५९ ॥
(५५) पद्ममूलम् (मूलम् ) पद्ममूलं तु शालूकं सकलं करहाटकम् । शालिनं पद्मकन्दं च जलालूकं निगद्यते ॥ १६३ ॥
गुणाः-पद्मकन्दः कपायः स्यात्स्वादे तिक्तो विपाकतः। शीतवीर्योऽसपितोत्थरोगभङ्गाय कल्पते ॥ १६४ ॥
राजनिघण्टौ करवीरादिर्दशमो वर्ग:पद्मकन्दस्तु शालूकं पद्ममूलं कटाह्वयम् । शालीनं च जलालूकं स्यादित्येवं पडाह्वयम् ॥ २६०॥
गुणाः—शालूकं कटु विष्टम्भि रूक्षं रुच्यं कफापहम् । कषायं कासपित्तघ्नं तृष्णादाहनिवारणम् ॥ २६१॥
(५६) पद्मकेसरम् ( केसरम् ) पद्मकेसरमापीतं किञ्जल्कं किञ्जमेव च । मकरन्दं तथा तुझं गौरं काञ्चनकं च तत् ॥ १६५॥
गुणाः-तृपानं शीतलं रूक्षं पित्तरक्तक्षयापहम् । पद्मकेसरमेवोक्तं पित्तनं सकपायकम् ॥ १६६ ॥
राजनिघण्टौ करवीरादिर्दशमो वर्ग:किञ्जल्लं मकरन्दं च केसरं पद्मकेसरम् । किञ्ज पीतं परागं च तुझं चाम्पेयकं नव ॥ २६२ ॥
गुणाः—किजल्लं मधुरं रूक्षं कटु चास्य व्रणापहम् । शिशिरं रुच्यपित्तनं तृष्णादाहनिवारणम् ॥ २६३ ॥
For Private and Personal Use Only