________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [करवीरादिःक्षुद्रमुत्पलम् । (पुण्डरीकविशेषः ) ॥२५॥ ईषच्छीतं विदुः पद्ममीपनीलमथोत्पलम् । ईषद्रक्तं तु नलिनं क्षुद्रं तच्चोत्पलत्रयम् ॥ १५६ ॥ गुणाः-उत्पलस्य त्रयं स्वादु कषायं पित्तजिद्धिमम् ।
राजनिघण्टौ करवीरादिर्दशमो वर्ग:ईषच्छेतं पद्मं नलिनं च तदुक्तमीषदारक्तम् । उत्पलमीपनीलं त्रिविधमितीदं भवेत्कमलम् ॥ २५२ ॥
गुणाः-उत्पलादिरयं दाहरक्तपित्तप्रसादनः । पिपासादाहहृद्रोगच्छर्दिपूहिरो गणः ॥ २५३ ॥
(५२) पद्मिनी। पद्मिनी स्यात्कुटपिनी नलिनी च कुमुद्रती । पलाशिनी पद्मवती वनखण्डा सरोरुहा ॥ १५७॥ गुणाः-पद्मिनी शिशिरा रूक्षा कफपित्तहरा स्मृता ।
राजनिघण्टौ करवीरादिर्दशमो वर्गःपद्मिनी नलिनी प्रोक्ता कुटपिन्यब्जिनी तथा । इत्थं तत्पद्मपर्यायनानी ज्ञेया प्रयोगतः ॥ २५४ ॥
गुणाः-पद्मिनी मधुरा तिक्ता कपाया शिशिरा परा। पित्तकृमिशोषवान्तिभ्रान्तिसंतापशान्तिकृत् ॥ २५५ ॥
(५३) पद्मबीजम्। पद्मवीनं तु पद्माक्षं गालोड्यं पद्मकर्कटी । भेडा क्रौञ्चादनी क्रौञ्चो नापाकश्चैष कन्दली ॥ १५९ ॥
गुणाः-स्वादु तिक्तं पद्मवीजं गर्भस्थापनमुत्तमम् । रक्तपित्तप्रशमनं किंचि. न्मारुतकृद्भवेत् ॥ १६० ॥
राजनिघण्टौ करवीरादिर्दशमो वर्गःपद्मवीज तु पद्माक्षं गालोड्यं कन्दली च सा । भेडा क्रौश्चादनी क्रौञ्चा श्यामा स्यात्पद्मकर्कटी ॥ २५६ ॥
गुणाः—पद्मवीजं कटु स्वादु पित्तच्छर्दिहरं परम् । दाहास्रदोषशमनं पाचनं रुचिकारकम् ॥ २५७ ॥
१ ग. नामतश्चैव पद्मकम् । छ. नायक। ण. ताप्यक ।
For Private and Personal Use Only