________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५८
धन्वन्तरीयनिघण्टुः
राजनिघण्टौ शताह्वादिचतुर्थी वर्गःकासमर्दोऽरिमर्दश्च कासारिः कासमर्दकः । कालः कनक इत्युक्तो जारणो दीपक सः || १७७ ॥
गुणाः - कासमर्दः सतिक्तोष्णो मधुरः कफवातजित् । अजीर्णकासपित्तघ्नः पाचनः कण्ठशोधनः ॥ १७८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ करवीरादिः -
( ४१ ) इक्षुः ।
इक्षुः कर्कोटको वंशः कान्तारो वेणुनिस्वनः । इक्षुरन्यः पौण्ड्रकस्तु रसाल: सुकुमारकः ।। १२० ॥
गुणाः -- ईक्षुः सरो गुरुः स्निग्धो बृंहणः कफमूत्रजित् । हृष्यः शीतः पवनजिक् वातप्रकोपनः ॥ १२१ ॥ अन्यः करकशाली स्यादिक्षुयोनीक्षुवालिका । तथाऽन्यश्चेक्षुगन्धः स्यादिक्षुरः कोकिलाक्षकः ।। १२२ ।।
गुणाः अतीव मधुरो मूले मध्ये मधुर एव च । अग्रे त्वचि च विज्ञेय इक्षणां लवणो रसः।।१२३॥ इक्षुयुग्मं रसे स्वादु पित्तघ्नं वृष्यशीतलम् । ग्रन्थान्तरे - गुरु श्लेष्ममदं वातरक्तपित्तविनाशनम् । शर्करासमवीर्यस्तु दन्तनिप्पीडितो रसः ॥ १२४ ॥ गुरुर्विदाही विष्टम्भी यन्त्रकस्तु प्रकीर्तितः । पक्को गुरू रसः स्निग्धः सुतीक्ष्णः कफवातनुत् ।। १२५ ।। इक्षुविशेषगुणाः – वृप्यः शीतोष्णपित्तं शमयति मधुरो बृंहणं श्लेष्मकारी स्निग्धो द्योऽथ बल्योऽप्यतिशमनपरी मूत्रशुद्धिं करोति । मेदोवृद्धिं विधत्ते शमयति च मलं तर्पणं चेन्द्रियाणां दन्तैनिष्पीड्य साक्षादमृतमयरसं भक्षयेदिक्षुदण्डम् ॥ १२६ || भक्षयदिक्षुकं काले भोजनस्याग्रतो नरः । स्वभावान्मधुरो ह्येष भुक्ते वातप्रकोपनः ।। १२७ ।
For Private and Personal Use Only
राजनिघण्टी पानीयादिश्चतुर्दशो वर्ग:
इक्षवः पञ्चधा प्रोक्ता नानावर्णगुणान्विताः । सितः पुण्ड्रः करक्षुः कृष्णो रक्तश्च ते क्रमात् ।। १७९ ॥ इक्षुः कर्कटको वंशः कान्तारः सुकुमारकः । असिपत्रो मधुतृणो वृष्यो गुतृणो नव ॥ १८० ॥ श्वेतेक्षुस्तु सितेक्षुः स्यात्काष्ठेक्षुर्वशपत्रकः । सुवंशः पाण्डुरेक्षुश्च काण्डेनुर्धवलेक्षुकः || १८१ ॥
गुणाः सितेक्षुः कठिनो रुच्यो गुरुश्च कफसूत्रकृत् । दीपनः पित्तदानो विपाके कोष्णदः स्मृतः || १८२ ।। पुण्ड्रकस्तु रसालः स्याद्रसेक्षुः सुकुमारकः । कर्बुरो मिश्रवर्णश्च नेपालेक्षुश्च सप्तधा ।। १८३ ।।
गुणाः पुण्ड्रोऽतिमधुरः शीतः कफकृत्पित्तनाशनः । दाहश्रमहरो रुच्यो १ त. इक्षुरसो गुं । २८. ष्यो ।