SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः ] राजनिघण्टुसहितः। १५७ शङ्खपुष्पी सुपुष्पी च शङ्खाता कम्बुमालिनी। सितपुष्पी कम्बुपुष्पी मेध्या वनविलासिनी ॥ १७० ॥ चिरिण्टी शङ्खकुसुमा भूलग्ना शङ्खमालिनी । इत्येषा शङ्खपुष्पी स्यादुक्ता द्वादशनामभिः ॥ १७१ ॥ गुणाः-शङ्खपुष्पी हिमा तिक्ता मेधाकृत्स्वरकारिणी । ग्रहभूतादिदोषघ्नी वशीकरणसिद्धिदा ॥ १७२॥ विष्णुकान्ता । (शङ्खपुष्पीविशेषः) ॥ २० ॥ विष्णुकान्ता नीलपुष्पी सतीना छर्दिका तथा । शुक्लपुष्पा भूमिलग्ना हस्वा सा शङ्खपुष्पिका ॥ ११५ ॥ सूक्ष्मपत्रान्तरा ज्ञेया साक्षी रक्तपुष्पिका । गुणाः-*विष्णुक्रान्ता कटुस्तिक्ता कफवातामयापहा । राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःविष्णुक्रान्ता हरिक्रान्ता नीलपुष्पाऽपराजिता । नीलकान्ता सतीना च विक्रान्ता छर्दिका च सा ॥ १७३ ॥ गुणाः-* ॥ (३९) तन्दुलीयकः । (तन्दुली) तण्डुलीयक उद्दिष्टस्तण्डुलस्तण्डुलीयकः । भण्डीरस्तण्डुलीवीजो मेघनादो घनस्वनः ॥ ११६ ॥ गुणाः-तण्डुलीयो विषघ्नश्च रूक्षः शीततरुः शुचिः । मधुरो रसपाकाभ्यां रफपित्तापघातकः ॥ ११७ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग:___ तण्डुलीयस्तु भण्डीरस्तण्डुली तण्डुलीयकः । ग्रन्थिलो बहुवीर्यश्च मेघनादो घनस्वनः ॥ १७४ ॥ सुशाकः पथ्यशाकश्च स्फूर्जथुः स्वनिताह्वयः । वीरस्तण्डुलनामा च पर्यायाश्च चतुर्दश ॥ १७५ ॥ गुणाः तण्डुलीयस्तु शिशिरो मधुरो विषनाशनः । रुचिकृद्दीपनः पथ्यः पित्तदाहभ्रमापहः ॥ १७६ ॥ (४०) कासमर्दः। कासमोऽरिमर्दश्च कासारिः कर्कशस्तथा । कालः कनक इत्युक्तः स च स्यात्कासमर्दकः ॥ ११८ ॥ गुणाः---कासमर्दः सुतिक्तः स्यान्मधुरः कफवातजित् । विशेषतः पित्तहरः पाचनः कण्ठशोधनः ॥ ११९ ॥ १ ङ. छ. 'पित्तप्रदाहकः । २ त. कालकण्टकः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy