________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
धन्वन्तरीयनिघण्टुः- [करवीरादि:प्रसारिणी ॥ १५९ ॥ लज्जालुः सप्तपर्णी स्यात् खदिरी गण्डमालिका । लज्जा च लज्जिका चैव स्पर्शलज्जाऽस्ररोधिनी ॥ १६० ।। रक्तमूला ताम्रमूला स्वगुप्ताऽञ्जलिकारिका । नाम्नां विंशतिरित्युक्ता लजायास्तु भिषग्वरैः ॥ १६१ ॥
गुणाः-*। * ॥ १६२ ॥
लजालुवैपरीत्याऽन्या अल्पापवृहद्दला । वैपरीत्यादिलजालुद्यभिधाने प्रयोजयेत् ॥ १६३ ॥
गुणाः-लज्जालुर्वैपरीत्याहा कदुरुष्णा कफामनुत् । रसे नियामिका चैव नानाविज्ञानकारिका ॥ १६४॥
(३७) विश्वग्रन्थिः । रक्तपाद्यपरा प्रोक्ता विश्वग्रन्थिस्त्रिपाद्यपि । हंसपादी हंसपदी घृतमण्डलिका च सा ॥ १११॥
गुणाः–रक्तप्रसादनी शीता दाहवीसर्पनाशिनी । वर्णप्रारोपणी हंसपदिका हंसपादिका ॥ ११२ ॥ ___राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः
रक्तपाद्यपरा प्रोक्ता त्रिपदा हंसपादिका । घृतमण्डलिका ज्ञेया विश्वग्रथिस्त्रिपादिका ॥ १६५ ॥ विपादी कीटमारी च हेमपादी मधुस्रवा । कर्णाटी ताम्रपात्री च विक्रान्ता सुवहा तथा ॥ १६६ ॥ ब्रह्मादनी पदाङ्गी च शीताङ्गी सुतपादुका । संचारिणी च पदिका प्रह्लादी कीलपादिका ॥ १६७ ॥ गोपापदी च हंसाज्रिर्धार्तराष्ट्रपदी तथा । हंसपादी च विज्ञेया नाना चैषा शराविधा ॥ १६८ ॥
गुणाः-हंसपादी कटूष्णा स्याद्विषभूतविनाशिनी । भ्रान्त्यपस्मारदोषघ्नी विज्ञेया च रसायनी ॥ १६९ ॥
(३८) शङ्खपुष्पी । शङ्खपुष्पी कम्बुपुष्पी शङ्खावा कम्बुमालिनी । तिलकी शङ्खकुसुमा मेध्या क्नविलासिनी ॥ ११३ ॥
गुणाः-शङ्खिनी कटुतिक्तोष्णा कासपित्तबलासजित् । विषापस्मारभूतादीन्हन्ति मेध्या रसायनी ॥ ११४ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः
१ क. ङ. शङ्खमालिनी । २ क. ख. ङ. तिरीटी।
For Private and Personal Use Only