________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुर्थो वर्गः ] राजनिघण्टुसहितः।
१५३ गुणाः-विकसा कटुका तिक्ता तथोष्णा स्वरसादनुत् । रसायनप्रयोगाच सर्वरोगहरा मता ॥ ९५ ॥ कषाया ग्राहिणी वा रक्तपित्तप्रसादनी ।
सामान्यगुणाः-*रोहिणीयुगुलं शीतं कषायं कृमिनाशनम् । *कण्ठशुद्धिकरं रुच्यं वातदोषनिषूदनम् ॥ ९६ ॥
राजनिघण्टौ चन्दनादिादशो वर्ग:* । विकसा मांसरोही च ज्ञेया मांसरुहा मुनिः ॥ १३८ ॥ अन्या मांसी सदामांसी मांसरोहा रसायनी । सुलोमा लोमकरणी रोहिणी मांसरो. हिका ॥ १३९ ॥ गुणाः-*। * ॥ १४०॥
(३१) वन्दका। वन्दका स्यादृक्षरुहा शेखरी कामरूपका । वृक्षादनी तरुरुहा कामिनी पद्मरूपिणी ॥ ९७ ॥ गुणाः-चन्दकः शीतलः पाके ग्राही स्याव्रणरोपणः।
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःवन्दाकः पादपरुहा शिखरी तरुरोहिणी । वृक्षादनी वृक्षरुहा कामवृक्षश्च शेखरी ॥ १४१ ॥ केशरूपा तरुरुहा तरुस्था गन्धमोहिनी । कामिनी तरुभुश्यामा द्रुपदी पोडशाह्वया ॥ १४२ ॥
गुणाः–चन्दाकस्तिक्तशिशिरः कफपित्तश्रमापहः । वश्यादिसिद्धिदो वृष्यः कषायश्च रसायनः ॥ १४३ ॥
(३२) सुवर्चला । ( आदित्यभक्ता) सुवर्चलाऽऽदित्यकान्ता सूर्यभक्ता सुखोद्भवा । मण्डूकपर्णी मण्डूकी वरदाऽऽदित्यवल्यपि ॥ ९८ ॥
गुणाः--आदित्यभक्ता कटुका तथोष्णा स्फोटकापहा । सरस्वती सरा स्वर्या रसायनविधौ हिता ॥ ९९ ॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःआदित्यभक्ता वरादाभक्ता सुवर्चला सूर्यलताकान्ता । मण्डूकपर्णी सुरसंभवा च सौरिः सुतेजोऽहिता रवीष्टा ॥ १४४ ।। मण्डकी सत्यनानी स्यादेपा मार्तण्डवल्लभा । विक्रान्ता भास्करेष्टा च भवेदष्टादशाह्वया ॥ १४५॥
१ झ. ह. रुरुक्श्या । २ क. इ. 'त्यपर्ण्यपि ।
For Private and Personal Use Only