________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [करवीरादि:
(२८) पद्मचारिणी ( पद्मचारटी ) पद्मचारिण्यतिचरा पद्मा पद्मवतीति च । चारटी गन्धमूला च लक्ष्मीः श्रेष्ठा सुपुष्करा ॥९॥ गुणाः-पद्मा सुगन्धा तिक्ता च मोहापस्मारनाशनी । __ राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग:
पद्मिनी सा तु पद्माहा चारटी पद्मचारिणी। मुगन्धमूलाऽम्बुरुहा लक्ष्मी श्रेष्ठा सुपुष्करा ॥ १३१ ॥ रम्या पद्मवती चातिचरा स्थूलरुहा स्मृता । ज्ञेया पुष्करिणी चैव पुष्कराया च पर्णिका ॥ १३२ ॥ पुष्करादियुता नाडी प्रोक्ता पञ्चदशाहया। ___ गुणाः-स्थलादिपद्मिनी गौल्या तिक्ता शीता च वोन्तिनुत् । रक्तपित्तहरा मेहभूसातीसारनाशनी ॥ १३३ ॥
(२९) गृष्टिः ( वाराही ) गृष्टिविष्वक्सेनकान्ता वाराही गृष्टिका च सा । माधवी सौकरी कान्तिः कान्ता च वनमालिनी ॥ ९२॥
गुणाः—कान्ता सौकरिका तिक्ता कुष्ठकृमिगरातिजित् । वाराह्याः कफहा कन्दः कटुको रसपाकतैः । हिमकुष्ठकृमिहरो हृयो वल्यो रसायनः ॥ ९३ ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्गःस्याद्वाराही सूकरी क्रोडकन्या गृष्टिविष्वक्सेनकान्ता वराही । कौमारी स्याब्रह्मपत्री त्रिनेत्रा क्रौडी कन्या गृष्टिका माधवेष्टा ॥ १३४ ॥ सूकरकन्दः क्रोडो वनवासी कुष्ठनाशनो वन्यः । अमृतश्च महावीर्यो महौषधिः शबरकन्दश्च ॥१३५॥ वराहकन्दो वीरश्च ब्राह्मकन्दः सुकन्दकः । वृद्धिदो व्याधिहन्ता च वसुनेत्रमिताह्वयाः ॥ १३६ ॥ __गुणाः—चराही तिक्तकदुका विषपित्तकफापहा । कुष्ठमेहकृमिहरा वृष्या बल्या रसायनी ॥ १३७॥
(३०) मांसरोहिणी । ( मांसरोहिका ) * मांसरोहिण्यतिरुहा वृत्ता चर्मकँसा च सा । विकसा मांसरोहा च रुहा रक्ता प्रकीर्तिता ॥ ९४ ॥
१ झ. ढ. स्थलपी तु । २ टे. वातनु । ३ क. ख. ग. आ.तः । कुष्टमेदकृमिहरो वृप्यो ब" । ४ ग. कषा च। त. 'कशा च ।
For Private and Personal Use Only