________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
धन्वन्तरीयनिघण्दुः- [ करवीरादि:गुणाः-सुवर्णमोचा मधुरा हिमा च स्वल्पाशने दीपनकारिणी च । तृष्णापहा दाहविमोचनी च कफावहा वृष्यकरी गुरुश्च ॥ ११६ ॥
(२४) सिन्दुवारः। *सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः । नीलपुष्पः शीतसहो निर्गुण्डी नीलसिन्दुका ॥ ८१ ॥
गुणाः-निर्गुण्डी कतिक्तोष्णा कृमिकुष्ठरुजापहा । वातश्लेष्मप्रशमनी प्लीहगुल्मारुचीर्जयेत् ॥ ८२॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गः*स्थिरसाधनको नेता सिद्धकश्वार्थसिद्धकः ॥ ११७ ॥ गुणाः-सिन्दुवारः कटुस्तिक्तः कफवातक्षयापहः । कुष्ठकण्डूतिशमनः शूलहृत्काससिद्धिदः ॥ ११८ ॥
(२५) शेफालिका । (शेफाली) शेफालिकाऽन्या निर्गुण्डी वनजा नीलमञ्जरी । शुक्लाऽन्या श्वेतसुरसा भूतकेशी च कथ्यते ॥ ८३ ॥ गुणाः—कृष्णसंज्ञो विषघ्नश्च पवित्रो गिरिसिन्दुकः ।
राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:सुगन्धाऽन्या शीतसहा निर्गुण्डी नीलसिन्दुकः । सिन्दुकच्छपिका भूतकेशीन्द्राणी च नीलिका ॥ ११९ ॥
गुणाः-कटूष्णा नीलनिर्गुण्डी तिक्ता रूक्षा च कासजित् । श्लेष्मशोफसमीरातिप्रदराध्मानहारिणी ॥ १२० ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः
शुक्लाङ्गी। (शेफालिकाविशेषः) ॥ १७ ॥ शेफालिका तु सुवहा शुक्लाङ्गी शीतमञ्जरी प्रोक्ता । अपराजिता च विजया वातारिभूतकेशी च ॥ १२१ ॥
गुणाः-शेफालिः कटुतिक्तोष्णा रूक्षा वातक्षयापहा । स्यादङ्गसंधिवातघ्नी गुदवातादिदोषनुत् ॥ १२२ ॥
१ ट. फापहा । २ क. ग. सिन्धुकः सिन्धुवा' । ३ डः सीतसिन्धुका । ४ झ. ढ. कश्रपि ।
For Private and Personal Use Only