________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुर्थो वर्गः ] राजनिघण्टुसहितः।
१४९ विपाणी गुच्छदन्तिका ॥ १०६ ॥ काष्ठीरसा च निःसारा राजेष्टा बालकमिया । उरुस्तम्भा भानुफला वनलक्ष्मीश्च षोडश ॥ १०७॥
गुणाः-वालं फलं मधुरमल्पतया कषायं पित्तापहं शिशिररुच्यमथापि नालम् । पुष्पं तदप्यनुगुणं कृमिहारि कन्दं पर्ण च शूलशमकं कदलीभवं स्यात् ॥ १०८ ॥ अपि च-रम्भापकफलं कषायमधुरं बल्यं च शीतं तथा पित्तं चास्त्रविमर्दनं गुरुतरं पथ्यं च मन्दानले । सद्यः शुक्रविवृद्धिदं क्लमहरं तृष्णापहं कान्तिदं दीप्ताग्नौ सुखदं कफामयकरं संतर्पणं दुर्जरम् ॥ १०९ ॥
काष्ठकदली ( कदलीविशेषः ) ॥ १४ ॥ द्वितीया काष्ठकदली श्वेता रानकदल्यपि । विषनी कदली चापि पाषाणकदली तथा ॥ ७० ॥ पाठान्तरे-द्वितीया काष्ठकदली श्वेता वनकदल्यपि । विपन्नी स्वादुकदली पाषाणकदली तथा ॥ ७९ ॥
गुणाः-*स्यात्काष्ठकदली रुच्या रक्तपित्तहरा हिमा । * गुरुर्मन्दाग्निजननी दुर्जरा मधुरा परा ॥८॥
राजनिघण्टावाम्रादिरेकादशो वर्गःकाष्ठकदली सुकाष्ठा वनकदली काष्ठिका शिलारम्भा । दारुकदली फलाढ्या वनमोचा चाश्मकदली च ॥ ११० ॥ गुणाः-* * ॥ १११॥ राजनिघण्टावाम्रादिरेकादशो वर्गः
गिरिकदली ( कदलीविशेषः ) ॥ १५ ॥ गिरिकदली गिरिरम्भा पर्वतमोचाऽप्यरण्यकदली च । बहुवीजा वनरम्भा गिरिजा गजवल्लभाऽभिहिता ॥ ११२॥ ___ गुणाः-गिरिकदली मधुरहिमा वलवीर्यविवृद्धिदायिनी रुस्या । तृपित्तदाहशोपप्रशमनकी च दुर्जरा च गुरुः ॥ ११३ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः
सुवर्णकदली ( कदलीविशेषः ) ॥ १६ ॥ अन्या सुवर्णकदली सुवर्णरम्भा च कनकरम्भा च । पीता सुवर्णमोचा चम्पकरम्भा सुरम्भिका सुभगा ॥ ११४ ॥ हेमफला स्वर्णफला कनकस्तम्भा च पीतरम्भा च । गौरा च गौररम्भा काञ्चनकदली सुरप्रिया षड्भूः।।११५॥
१ झ. काष्ठिरसा।
For Private and Personal Use Only