________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
धन्वन्तरीयनिघण्टुः
[ करवीरादिः -
गुणाः - गर्जरं मधुरं रुच्यं किंचित्कटु कफापहम् । आध्मानकृमिशूलघ्नं दाहपित्ततृषापहम् ।। ९९ ॥
( २२ ) पलाण्डुः । (ऊलि:, कन्दर्पः)
पलाण्डुर्यवनेष्ट सुकन्दो मुखदूर्षणः । हरितोऽन्यः पलाण्डुश्च लताक दुर्द्रुमः स्मृतः ।। ७१ ।।
गुणाः - पलाण्डुस्तगुणो नान्यो विपाके मधुरस्तु सः । कफं करोतिनो पित्तं केवलोऽनिलनाशनः ।। ७२ ।। ऊँलिः पञ्चरसाऽपि स्यागुरूष्णा चाम्लवर्जिता । वायुशोफारुचिश्लेष्मकृमिहद्रोगनाशनी ॥ ७३ ॥ पलाण्डुः कटुको बल्यो गुरुवतास्रपित्तजित् । अन्यः क्षीरपलाण्डुश्च दृष्यो मधुरपि
च्छलः ।। ७४ ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
पलाण्डुस्तीक्ष्णकन्दवल्ली च मुखदूषणः । शूद्रप्रियः कृमिघ्नश्च दीपनो मुखगन्धकः ।। १०० ।। बहुपत्रो विश्वगन्धो रोचनो रुद्रसंज्ञकः । श्वेतकन्दश्च तत्रैको हारिद्रोऽन्य इति द्विधा ॥ १०१ ॥
गुणाः - पलाण्डुः कटुको बल्यः कफपित्तहरो गुरुः । वृप्यश्च रोचनः स्निग्धो वान्तिदोषविनाशनः ।। १०२ ।। अन्यो राजपलाण्डुः स्याद्यवनेष्टो नृपाह्वयः । राजप्रियो महाकन्दो दीर्घपत्रच रोचकः ॥ १०३ ॥ नृपेष्टो नृपकन्दश्च महाकन्दो नृपप्रियः । रक्तकन्दश्च राजेष्टो नामान्यत्र त्रयादेश ।। १०४ ।।
गुणाः- पलाण्डुर्नृपपूर्वः स्याच्छिशिरः पित्तनाशनः । कफहद्दीपनचैव बहुनिद्राकरस्तथा ॥ १०५ ॥
( २३ ) कदली ।
कदली सुकुमारा च रम्भा स्वादुफला मता । दीर्घपत्रा च निःसारा मोचा हस्तिविषाणिका ।। ७५ ।।
गुणाः - कदली मधुरा शीता रम्या पित्तहरा मृदुः । कदल्यास्तु फलं स्वादु कपायं नातिशीतलम् । रक्तपित्तहरं वृष्यं रुच्यं कफकरं गुरु || ७६ ॥ कन्दस्तु वातलो रूक्षः शीतोऽसृकृमिकुष्ठनुत् ।
राजनिघण्टावाम्रादिरेकादशो वर्ग:--
कदली सुफला रम्भा सुकुमारा सकृत्फला । मोचा गुच्छफला हस्ति
१ ग. घ. ंषकः । हौं । २ ग. द्रुमो मतः । ३ त उलिः । ४ ८. उष्णी । ५क. ख. ग. ङ,
भानुफला ।
For Private and Personal Use Only