________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुर्थो वर्गः ] राजनिघण्टुसहितः।
१४७ (१९) जलपिप्पली । (जलभूः ) जलपिप्पल्यभिहिता शारदी तोयपिप्पली । मत्स्यादनी मत्स्यगन्धा लागली शकुलादनी ॥ ६४॥ __ गुणाः-जलपिप्पलिका तिक्ता कषाया कफपित्तनित् । श्वासासविषदाहार्तिभ्रममूर्छातृपापहा ॥६५॥ ( राजनिघण्टौ जलपिप्पल्याः पर्यायशब्दा गुणाश्च न दृश्यन्ते )
(२०) रसोनः । रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् । महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्रकः ॥६६॥
गुणाः-रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः । वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसंधानकरः सुतीक्ष्णः॥ ६७ ॥ तथाच-हद्रोगजीर्णज्वरकुक्षिशूलविवन्धगुल्मारुचिकृच्छ्रशोफान् । दुर्नामकुष्ठानिलसादजन्तुकफामयान्हन्ति महारसोनः ॥ ६८॥
राजनिघण्टौ मूलकादिः सप्तमो वर्गःरसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् । भूतनश्चोग्रगन्धश्च लशुनः शीतमर्दकः ॥ ९४ ॥
गुणाः-रसोनोऽम्लरसोनः स्याद्गुरूष्णः कफवातनुत् । अरुचिकृमिहद्रोगशोफघ्नश्च रसायनः ॥ ९५ ॥ रसोनोऽन्यो महाकन्दो गृञ्जनो दीर्घपत्रकः। पृथुपत्रः स्थूलकन्दो यवनेष्टो बले हितः ॥ ९६ ॥
गुणाः-गृञ्जनस्य मधुरं कटु कन्दं नालमप्युपदिशन्ति कषायम् । पत्रसंचयमुशन्ति च तिक्तं सूरयो लवणमस्थि वदन्ति ॥ ९७ ॥
(२१ ) गृञ्जरम् । ( गर्जरम् ) गर्जरं पिङ्गलं मूलं पीतकं मूळकं तथा । स्वादुमूलं सुपीतं च नागरं पीतमूलकम् ॥ ६९ ॥
गुणाः--गर्जरं मधुरं रुच्यं किंचित्कटु कफापहम् । आध्मानकृमिशूलघ्नं दाहपित्तज्वरापहम् ॥ ७० ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:गर्जरं पिङ्गमूलं च पीतकं च सुमूलकम् । स्वादुमूलं सुपीतं च नारङ्गं पीतमूलकम् ॥ ९८ ॥
१ ङ, छ. फवातजि । २ ज. शीतपूर्वकः । झ. ढ. शितपूर्वकः ।
For Private and Personal Use Only