________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४६
धन्वन्तरीयनिघण्टुः
[ करवीरादिः -
गुणाः - पित्तकृत्पार्श्वशूलघ्नः सुमुखः समुदाहृतः । कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ।। ५९ ।।
राजनिघण्टौ करवीरादिर्दशमो वर्ग:
वनवर्वरिकाऽन्या तु सुगन्धिः सुप्रसन्नकः । दोषोत्क्लेशी विषघ्नश्च सुमुखः सूक्ष्मपत्रकः ।। ८८ ।। निद्रालुः शोफहारी च सुवक्त्रश्च दशाह्वयः । गुणाः – वनवर्वरिका चोष्णा सुगन्धो कटुका च सा । पिशाचवान्तिभूतनी घ्राणसंतर्पणी परा ॥ ८९ ॥
(१७) आसुरी ।
आसुरी राजिका राजी कृष्णका रक्तसर्षपः । तीक्ष्णगन्धा चातितीक्ष्णा क्षुवकः क्षवकः क्षवः ॥ ६० ॥
गुणाः- राजिका कटुतिक्तोष्णा कुष्ठघ्नी कफगुल्मजित् । निद्राकरी शोफहरी ग्रहकारी च सा स्मृता ॥ ६१ ॥
राजनिघण्टौ शाल्यादिः पोडशो वर्ग:
आसुरी राजिका राजी रक्तिका रक्तसर्षपः । तीक्ष्णगन्धा मधुरिका क्षवकः क्षुवकः क्षवः ॥ ९० ॥
गुणाः- आसुरी कटुतिक्तोष्णा वातप्लीहार्तिशूलनुत् । दाहपित्तप्रदा हन्ति कफगुल्मकमित्रणान् ॥ ९० ॥
॥ ९३ ॥
( १८ ) काण्डीरः । ( काण्डरी )
* काण्डीरः काण्डकटुको नासासंवेदनः पटुः । उग्रकाण्डस्तोयवल्ली कारवल्ली सुकाण्डकः ॥ ६२ ॥
गुणाः काण्डीरः कटुतिक्तोष्णः सरो दुष्टव्रणार्तिजित् । लूतागुल्मोदरश्रीहशूलमन्दाग्निनाशनः ॥ ६३ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:
गुणाः
* * ॥ ९२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
*. ङ. पुस्तकयोविशेषपाठः -
'निद्राकरः शोफहरो रुचिकारी स च स्मृतः । सुमुखारुचिकृच्छ्रनो वातश्लेष्मविषापहः ॥
१. ग, स्तोम |
For Private and Personal Use Only