________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः ] राजनिघण्टुसहितः।
गुणाः-*कपर्दः कटुतिक्तोष्णः कर्णशूलवणापहः । * गुल्मशूलामयनश्च नेत्रदोपनिकृन्तनः ॥२५॥ ग्रन्थान्तरे-परिणामादिशूलनी ग्रहणीक्षयनाशनी। कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ॥२६॥ रसेन्द्रजारणे प्रोक्ता बीडद्रव्येषु शस्यते । तदन्ये तु वराटाः स्युर्गुरवः श्लेष्मपित्तलाः ॥ २७॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग:* । चराचरश्चरो वर्यो बालक्रीडनकश्च सः ॥ २८ ॥ गुणाः- *। * ॥ २९ ॥
(५) * * मृत्तिका ।। *मृन्मृत्तिका प्रशस्ता सा मृत्सा मृत्स्नेति चेष्यते ॥ ३० ॥ गुणाः-ग्रन्थान्तरे-मृत्तिका पावनी प्रोक्ता रससिद्धिविधायिका । दंशादिसवंशोफानां हत्री लेपेन योजिता ॥ ३१॥ राजनिघण्टौ भूम्यादिद्वितीयो वर्गः- ॥ * ॥ ३२ ॥
(६) * * पर्वतः । पर्वतः शिखरी शृङ्गी सानुमांश्च गिरिर्मतः। नगेन्द्रः श्माबलः श्रीमानश्मराशिः शिलोच्चयः ॥ ३३ ॥
ग्रन्थान्तरे गुणाः—अद्रौ हितकरो वासो यथा खलु तपस्विनाम् । यक्ष्मभाजां जनानां तु शैलवासस्तथा भवेत् ॥ ३४ ॥
राजनिघण्टौ भूम्यादितिीयो वर्गःअथ गिरिधरणीध्रगोत्रभूभृच्छिखरिशिलोचयशैलसानुमन्तः । क्षितिभृदगनगावनीधराद्रिस्थिरकुधराश्च धराधरो धरश्च ॥ ३५ ॥ अहार्यः पर्वतो ग्रावा कटकी प्रस्थवानपि । शृङ्गी च वृक्षवांश्चेति शब्दाः शैलार्थवाचकाः ॥ ३६ ॥
चन्दनादिरयं वर्गस्तृतीयः परिकीर्तितः ।
श्रीमतां भोगिनामर्हः प्रायो गन्धगुणाश्रयः ॥ इति रसवीर्यविपाकसहिते राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ
तृतीयो वर्गः ॥३॥
* * मृत्तिकायाः पर्वतस्यचाप्यत्र संग्रहः कङ्कुष्टसंबद्धत्वेन
For Private and Personal Use Only