________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[करवीरादि:
धन्वन्तरीयनिघण्टुःअथ करवीरादिश्चतुर्थो वर्गः
(१) करवीरः। (उपविषम् ) करवीरोऽश्वहाऽश्वनो हयमारोऽश्वमारकः । श्वेतकुन्दः श्वेतपुष्पः प्रतिहासोऽश्वमोहकः ॥ १॥ द्वितीयो रक्तपुष्पश्च चण्डको लेगुडस्तथा । चण्डातको गुल्मकश्च प्रचण्डः करवीरकः ॥२॥
गुणाः—करवीरः कटुस्तिक्तो वीर्ये चोष्णो ज्वरापहः । चक्षुष्यः कुष्ठकण्डूनः प्रलेपाद्विपमन्यथा ॥ ३ ॥ करवीरद्वयं तिक्तं सविपं कुष्टजित्कटु ।
राजनिघण्टौ करवीरादिर्दशमो वर्ग:-- करवीरो महावीरो हयमारोऽश्वमारकः । हयन्नः प्रतिहासश्च शतकुन्दोsश्वरोधकः॥१॥ हयारिीरकः कन्दुः शकुन्दः श्वेतपुष्पकः। अश्वान्तकस्तथाऽश्वघ्नो नखराहोऽश्वनाशकः ॥२॥ स्थूलादिकुमदः प्रोक्तो दिव्यपुष्पो हेरप्रियः । गौरीपुष्पः सिद्धपुष्पत्रिकराहः प्रकीर्तितः ॥३॥ ___ गुणाः-करवीरः कटुस्तीक्ष्णः कुष्टकण्डूतिनाशनः । व्रणार्तिविषविस्फोटशमनोऽश्वमृतिप्रदः ॥ ४ ॥ रक्तकरवीरकोऽन्यो रक्तप्रसवो गणेशकुसुमश्च । चण्डीकुसुमः क्रूरो भूतद्रावी रविपियो मुनिभिः ॥५॥
गुणाः-रक्तस्तु करवीरः स्यात्कटुस्तीक्ष्णो विशोधकः। त्वग्दोषव्रणकण्डूतिकुष्ठहारी विषापहः ॥ ६॥ पीतकरवीरकोऽन्यः पीतप्रसवः सुगन्धिकुसुमश्च । कृष्णस्तु कृष्णकुसुमश्चतुर्विधोऽयं गुणे तुल्यः ॥ ७॥
(२) चक्रमर्दः। (चक्रमर्दकः) चक्रमर्दस्त्वेडगजो मेषाक्षिकुसुमस्तथा । प्रपुन्नाटस्तरवटश्चक्राहश्चक्रिका तथा ॥४॥ अन्यच्च-चक्रमर्दस्त्वेडगजो मेषाक्षोऽण्डगजस्तथा। प्रपुन्नाटः प्रपुन्नाडश्चक्री व्यावर्तकस्तथा ॥५॥
गुणाः-चक्रमर्दः कटूष्णः स्यात्प्रोक्तो वातकफापहः। दगुकण्डूहरः कान्तिसौकुमार्यकरो मतः ॥६॥ ___*करवीरशोधनम्हयारिविषवच्छोध्यो गोदुग्धे दोलकेन तु । करवीरद्वयं नेत्ररोगकुष्टव्रणापहम् ॥ १॥ लघूष्णं कृमिकण्डुघ्नं भक्षितं विषवन्मतम्।।
१ क. ग. घ. ङ. शतकुन्दः । २ क. ङ. लकुड । ३ क. ङ. गुणक । ४ ग. येणोष्णो । ५ ज. हरिप्रियः।
For Private and Personal Use Only