________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः] राजनिघण्टुसहितः।
१३१ वर्गेतराणि
(१) *बहुला। बहुला च बलाऽनन्ता भद्रा पातालवासिनी । मुखरागकरी सौम्या अमृता त्वमृतोद्भवा ॥१॥कामदा कामजननी जीवन्ती यावनीप्रिया ।आमोदजननी हृद्या देवानां दानवमिया ॥ २ ॥ ताम्बूलवल्ली ताम्बूली देहदा श्रमभञ्जनी नागवल्ली च नागाहा रञ्जनी तीक्ष्णमञ्जरी ॥ ३ ॥ __गुणाः–ताम्बूलं कटु तिक्तमुष्णमधुरं क्षारं कषायान्वितं वातघ्नं कफनाशनं कृमिहरं दुर्गन्धिनिर्णाशनम् । वक्त्रस्याऽऽभरणं विशुद्धिकरणं कामाग्निसंदीपनं ताम्बूलस्य सखे ! त्रयोदश गुणाः स्वर्गेऽपि ते दुर्लभाः ॥ ४॥ *कृष्णं पर्ण तिक्तमुष्णं कषायं धत्ते दाहं वक्त्रजाड्यं मलं च । * शुभ्रं पर्ण श्लेष्मवातामयन्नं पथ्यं रुच्यं दीपनं पाचनं च ॥५॥
राजनिघण्टावाम्रादिरेकादशो वर्ग:अथ भवति नागवल्ली ताम्बूली फणिलता च सप्तशिरा । पर्णलता फणिवल्ली भुजगलता भक्ष्यपत्री च ॥६॥ सा श्रीवाटाम्लादिवाटादिनानाग्रामस्तोमस्थानभेदाद्विभिन्ना । एकाऽप्येपो देशमृत्स्नाविशेषान्नानाकारं याति काये गुणे च ॥७॥
गुणाः-नागवल्ली कटुस्तीक्ष्णा तिक्ता पीनसवातजित् । कफकासहरा रुच्या दाहकृद्दीपनी परा ॥ ८॥ ___ श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा । रसाढ्या सरसा रुच्या विपाके शिशिरा स्मृता ॥९॥ स्यादम् वाटी कटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुखपाककी।विदाहपित्तास्रविकोपनी च विष्टम्भदा वातनिबर्हणी च॥१०॥ सतसा मधुरा तीक्ष्णा कटुरुष्णा च पाचनी । गुल्मोदराध्मानहरा रुचिकृद्दीपनी परा ॥११॥ *गुहागरे सप्तशिरा प्रसिद्धा तत्पर्णजूर्णाऽतिरसाऽतिरुच्या । सुगन्धितीक्ष्णा मधुराऽतिहृया संदीपनी पुंस्त्वकराऽतिबल्या॥१२॥ नाम्नाऽन्याऽम्लँसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत्पित्तोद्रेकहरा सुदीपनकरी बल्या मुखामोदिनी। स्त्रीसौभाग्यविवर्धनी मदकरी राज्ञां सदा वल्लभा गुल्माध्मानविबन्धजिच्च कथिता
___ * ( १४ ) चतुर्दशसंख्यामितपूगीफलसंबद्धत्वादत्र वर्गान्ते बहुलायाः संग्रहः । + श्रीवाटी सिरिवाडीपान इति ख्यातस्य । + अम्लवाटी अंबाडेपर्ण इति ख्यातस्य । । सतसा सातसीपर्णम् । * अडगरपामतिख्यातस्य ।
+ अम्लसरा-अंगरापर्णमितिख्यातम् । १ ट.षा दोष। २ ज. ट. कायं । झ. ढ. कार्ये । ३ झ. ढ. गुणैश्च । ३ ८. 'न्धपित्तकफहा सा ।
For Private and Personal Use Only