________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[ चन्दनादिःगुणाः-*लोध्रयुग्मं कषायं तु शीतं वातकफास्रजित् । * चक्षुष्यं विषहृत्तत्र विशिष्टो वल्करोधकः ॥ १७८ ।।
राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्ग:क्रमुकः पट्टिकारोध्रः कल्करोधो वृहद्दलः । जीर्णवुनो बृहदल्को जीर्णपत्रोऽक्षिभेषजः ॥ २४० ॥ शावरः श्वेतरोधश्च मार्जनो बहलत्वचः । पट्टी लाक्षाप्रसादश्च वल्कलो बाणभूह्वयः ॥ २४१ ॥ लोध्रद्वयगुणाः- *। * ॥ २४२ ॥
(६४) *शवः । शङ्खो वारिभवः कम्बुर्जलदो दीर्घनिस्वनः । सुस्वरो दीर्घनादश्च धवल: श्रीविभूषणः ॥ १७९ ॥
गुणाः-शङ्खः स्वादुः कटुः पाके वीर्ये चोष्णः प्रकीर्तितः । परिणामं जयेचठूलं चक्षुष्यो रक्तपित्तजित् ॥ १८० ॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःशङ्खो ह्योभवः कम्बुर्जलजः पावनध्वनिः । कुटिलोऽन्तर्महानादः कम्बुपूतः सुनादकः ॥ २४३ ॥ सुस्वरो दीर्घनादश्च बहुनादो हरिप्रियः । एवं पोडशधा ज्ञेयो धवलो मङ्गलप्रदः ॥ २४४ ॥
गुणाः-शङ्खः कटुरसः शीतः पुष्टिवीर्यवलप्रदः । गुल्मशूलहरः श्वासनाशनो विषदोपनुत् ।। २४५ ॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गः
क्षुल्लकः । ( शङ्खविशेपः ) ॥ २६ ॥ क्षुल्लका क्षुद्रशङ्खः स्याच्छम्बूको नखशङ्खकः । गुणाः-क्षुल्लकः कटुकस्तिक्तः शूलहारी च दीपनः ॥ २४६ ॥ राजनिघण्टौ सुवर्णादिस्खयोदशो वर्ग:
कृमिशङ्खः । ( शङ्खविशेषः ) ॥ २७ ॥ कृमिशङ्खः कृमिजलजः कृमिवारिरुहश्च जन्तुकम्बुश्च । गुणाः-कथितो रसवीर्याद्यैः कृतधीभिः शङ्खसदृशोऽयम् ॥ २४७ ॥
* शङ्खस्य शुद्धिर्जम्बीरनीरेण कङ्कुष्ठवज्ज्ञेया । १ ङ. 'कलोध्र । २ क, ड, शीतः । ३ ग. 'णामोत्थशूलनश्चक्षु ।
For Private and Personal Use Only