________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः ]
राजनिघण्टुसहितः ।
गुणाः स्वादु स्निग्धं हिमं नेत्र्यं कषायं रक्तपित्तजित् । हिध्मावामेविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् ।। १७१ ॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग:--
सुवर्णगैरिकं चान्यत्स्वर्णधातुः सुरक्तकम् । संध्याभ्रं बभ्रुधातुश्च शिलाधातुः षडाह्वयम् ।। २३३ ।
गुणाः- * । * ।। २३४ ॥
१२९
( ६२ ) कतकम् ।
कतकं छेदनीयश्च कतं कतफलं मतम् । अम्बुप्रसादनफलं श्लक्ष्णं नेत्रविकारजित् ।। १७२ ।।
गुणाः -- कतकं शीतलं प्राहुस्तृष्णाविषविनाशनम् । नेत्रोत्थरोगविध्वंसि विधिनाऽञ्जनयोगतः || १७३ || कतकस्य फलं तिक्तं चक्षुष्यं पित्तलं मृदु | वारिप्रसादनं कृच्छ्रशर्करामश्मरीं जयेत् || १७४ ॥
राजनिघण्टावा म्रादिरेकादशो वर्ग:
कतकोऽम्बुप्रसादश्च कतस्तिक्तफलस्तथा । रुच्यस्तु च्छेदनीयश्च ज्ञेयो गुडफलः स्मृतः ।। २३५ ।। प्रोक्तः कतफलस्तिक्तमरीचश्च नवाह्वयः ॥ २३६ ॥ गुणाः——कतकः कटुतिक्तोष्णश्चक्षुष्यः कृमिदोपनुत् । रुचिकृच्छ्रलदोषघ्नो बीजमम्बुप्रसादनः || २३७ ॥
( ६३ ) लोध्रः । ( लोध्रम् )
लोधो रोधः शावरकस्तिल्वकस्तिलकस्तरुः । तिरीटकः काण्डहीनो भिल्ली शम्बरपादपः ।। १७५ ॥
गुणाः – लोध्रः शीतः कषायश्च हन्ति तृष्णामरोचकम् । विषविध्वंसनः प्रोक्तो रूक्षो ग्राही कफापहः ।। १७६ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:
लोधी रोधो भिल्लतरुचिल्लकः काण्डकीलकः । तिरीटो लोध्रको वृक्षः शम्बरो हस्तिरोधकः ।। २३८ ।। तिलकः काण्डहीनश्च शाबरो हेमपुष्पकः । भिल्ली शावरकश्चैव ज्ञेयः पञ्चदशाह्वयः ।। २३९ ॥
For Private and Personal Use Only
क्रमुकः ( लोधविशेषः ) || २५ ||
*मुकः पट्टिकारोधो वल्कलः स्थूलवल्कलः । जीर्णपर्णो बृहत्पर्णः पट्टी लाक्षाप्रसादनः ॥ १७७ ॥
१७