________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६ धन्वन्तरीयनिघण्टुः
[चन्दनादिःगुणाः-शीतं नीलाञ्जनं प्रोक्तं कटुतिक्तं कषायकम् । चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥ २१६ ॥
(५९) समुद्रफेनम् । (समुद्रफेनः) (धातुफेनम् ) समुद्रफेनं फेनं च शुष्काशुष्कं पयोधिजम् । विद्यादुदधिफेनं च प्रोक्तं सागरजं मलम् ॥ १५४ ॥
गुणाः—समुद्रफेनः शिशिरः कर्णपाकनिवारणः । लेखनो नेत्ररोगाणां हिमो विषविनाशनः ॥ १५५ ॥ चक्षुष्यो रक्तपित्तघ्नो गुल्मप्लीहहरः स्मृतः ।*
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःसमुद्रफेनं फेनश्च वार्षिफेनं पयोधिजम् । सुफेनमब्धिडिण्डीरं सामुद्रं सप्तनामकम् ॥ २१७॥
गुणाः-समुद्रफेनं शिशिरं कषायं नेत्ररोगनुत् । कफकण्ठामयन्नं च रुचिकृकर्णरोगहृत् ॥ २१८ ।।
(६०) चक्षुष्या। (नीलाञ्जनम् ) चक्षुष्या दृक्प्रसादा च सैव प्रोक्ता कुलत्थिका । कुलाली लोचनहिता कुम्भकारी मलापहा ॥ १५६ ॥
गुणाः-हिमा प्रोक्ता कषाया च विषं स्थावरजङ्गमम् । छिनत्ति योजिता सम्यनेत्रस्रावाननेकशः ॥ १५७॥सा च विस्फोटकण्डार्तिवणदोषनिबहिणी।
राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्ग:कुलत्था दिक्प्रसादा च चक्षुष्याऽथ कुलत्थिका । कुलाली लोचनहिता कुम्भकारी मलापहा ॥ २१९ ॥
गुणाः–कुलत्थिका तु चक्षुष्या कषाया कटुका हिमा । विषविस्फोटकण्डूतिव्रणदोषनिबर्हिणी ॥ २२० ॥
रसाजनम् । (चक्षुष्याविशेषः ) ॥ २० ॥ रसाञ्जनं तायशैलं रसजातं रसोद्भवम् । रसगर्भ रसाग्रयं च दार्वीकाथसमुद्भवम् ।। १५८ ॥ गुणाः-रसाञ्जनं हिमं तिक्तं रक्तपित्तकफापहम् । हिमाश्वासहरं वयं
* क. ङ. पुस्तकयोः श्लोकविशेषो दृश्यते'समुद्रफेनमुष्णं स्यात्पाचनं लघु लेखनम् । चक्षुष्यं कफवातघ्नं गुल्मप्लीहापहं मतम् ' ॥
१ क. शुक्लफेनं । २ क. ड. निहन्ति ।
For Private and Personal Use Only