________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૨૭
३ तृतीयो वर्गः] राजनिघण्टुसहितः। मुखरोगविषापहम् ॥ १५९ ॥ रसाञ्जनं रसे चोष्णं चक्षुष्यं तिक्तकं कदु । रक्तपित्तविषच्छर्दिहिकानं हृत्प्रसादनम् ॥ १६० ॥ अन्यच्च-रसाञ्जनं च पीतामं विषवक्त्रगदापहम् । श्वासहिध्माहरं वर्ण्य वातपित्तास्रनाशनम्॥१६१॥
राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःरसाञ्जनं रसोद्भूतं रसगर्भ रसाग्रजम् । कृतकं बालभैषज्यं दावीकाथोद्भवं तथा ॥ २२१ ॥ रसजातं तायशैलं ज्ञेयं वर्याञ्जनं तथा । रसनाभं चाग्निसारं द्वादशाहं च कीर्तितम् । २२२ ॥ रीत्यां तु ध्मायमानायां तत्किटं तु रसाअनम । तदभावे तु कर्तव्यं दार्वीकाथसमुद्भवम् ॥ २२३ ॥
(६१) पुष्पाञ्जनम् । (रीती) पुष्पाञ्जनं पुष्पकेतुः कौसुम्भं कुसुमाञ्जनम् । रीतिजं रीतिकुसुमं रीतिपुष्पं च पौष्पिकम् ॥ १६२॥
गुणाः-पुष्पाञ्जनं हिमं हन्ति हिक्कामत्यन्तदुस्तराम् । अक्षिरोगचयं हन्याद्विषं निर्विषतां नयेत् ॥ १६३ ॥ ___ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः
पुष्पाञ्जनं पुष्पकेतुः कौसुम्भं कुसुमाञ्जनम् । रीतिकं रीतिकुसुमं रीतिपुष्पं च पौष्पिकम् ॥ २२४ ॥
गुणाः-पुष्पाञ्जनं हिमं प्रोक्तं पित्तहिक्कापदाहनुत् । नाशयेद्विषकासार्ति सर्वनेत्रामयापहम् ॥ २२५ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः
स्रोतोञ्जनम् । (पुष्पाञ्जनविशेषः ) ॥२१॥ स्रोतोञ्जनं वारिभवं तथाऽन्यत्स्रोतोद्भवं स्रोतनदीभवं च । सौवीरसारं च कपोतसारं वल्मीकशीर्ष मुनिसंमिताहम् ॥ २२६ ॥
गुणाः-स्रोतोञ्जनं शीतकटु कषायं कृमिनाशनम् । रसाञ्जनं रसे योग्य स्तनवृद्धिकरं परम् ।। २२७ ॥ स्रोतोञ्जनलक्षणम्-वल्मीकशिखराकारं भिन्ननीलाञ्जनप्रभम् । धैर्षे च गैरिकावर्ण श्रेष्ठं स्रोतोञ्जनं च तत् ॥ २२८ ॥
१ छ. नं दृक्प्रसा' । २ झ. त. जयेत् । ३ झ. धर्मे ।
For Private and Personal Use Only