________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
धन्वन्तरीयनिघण्टुः
[ चन्दनादिः -
गुणाः - भल्लातकः कटुस्तिक्तः कपायोष्णः कृमीञ्जयेत् । कफवातोदरानाहमेहदुर्नामनाशनः ॥ २०३ ॥ अन्यच्च - भल्लातस्य फलं कषायमधुरं कोष्णं कफार्तिश्रमश्वासानाहविबन्धशूलजठराध्मानक्रिमिध्वंसनम् । तन्मज्जा च विशोपदाहशमनी पित्तापहा तर्पणीं वातारोचकहारिदीप्तिजननी पित्तापहा त्वञ्जसा ।। २०४ ॥
( ५६ ) *तुत्थम् ।
तुत्थं कर्षरिकातुत्थममृतासङ्गमेव च । मयूरग्रीवकं चान्यच्छितिकण्ठं च तुत्थकम् ।। १४५ ।। द्वितीयं कर्परीतुत्थं कर्परीतुत्थकं तथा । नेत्रनैर्मल्यकारि स्यात्तत्थममृतोपमम् ।। १४६ ।।
गुणाः तुत्थकं दृष्टिरोगनं शीतं श्वित्रविनाशनम् । विषवेगप्रशमनं प्रशस्तं कथ्यते बुधैः ॥ १४७ ॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग:
तुत्थं नीलाश्मजं नीलं हरिताश्मं च तुत्थकम् । मयूरग्रीवकं चैव ताम्र गर्भामृतोद्भवम् ।। २०५ ।। मयूरतुत्थं संप्रोक्तं शिखिकण्ठं दशाह्वयम् ।
गुणाः तुत्यं कटुकषायोष्णं श्वित्रनेत्रामयापहम् । विषदोषेषु सर्वेषु प्रशस्तं वान्तिकारकम् ।। २०६ ।। तुत्थभेदो राजनिघण्टौ द्वितीयं खर्परीतुत्थं खर्परीरसकं तथा । चक्षुष्यममृतोत्पन्नं तुत्थं खर्परिका तु षट् ॥ २०७ ॥
गुणाः खर्परी कटुका तिक्ता चक्षुष्या च रसायनी । त्वग्दोषशमनी रुच्या दीप्य पुष्टिविवर्धनी ॥ २०८ ॥
(५७) हेममाक्षिकम् ।
हेममाक्षिकमावर्त तापिजं धातुमाक्षिकम् । ताप्यं च माक्षिकं धातु मधुधातु विनिर्दिशेत् ॥ १४८ ॥
*
तुत्योत्पत्ति :- पीत्वा हलाहलं वान्तं पीतामृतगरुत्मता । विषेणामृतयुक्तेन गिरौ मरकताये ||१|| तद्वान्तं हि घनीभूतं संजातं सस्य खलु । मयूरकण्ठसच्छायं भाराढ्यमिति शस्यते ॥ २ ॥
श्री
तुत्यशोधनं मारणं च --सस्यकं शुद्धिमाप्नोति रक्तवर्गेण भावितम् । स्नेहवर्गेण संसिद्धं सप्तवारमर्षितम् ।। ३ ।। दोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् । गोमहिष्यजमूत्रेषु शुद्धं स्यात्पञ्चखर्परम् ॥४॥ लकुचद्रावगन्धाश्मटङ्कणेन समन्वितम् । निरुध्य मूषिकामध्ये म्रियते कौकुटैः पुटैः ॥ ५ ॥
अन्यच्च तुत्थशोधनम् — विष्टया मर्दयेत्तुत्थं मार्जारककपोतयोः । दशांशं टङ्कणं दत्त्वा पचेलघुपुटे ततः ॥ ६ ॥ पुटं दक्षा पुटं क्षौद्रेदेयं तुत्यविशुद्धये ।
+ माक्षिकोत्पत्तिशोधनमारणानि -
तत्राऽऽदावुत्पत्तिः - सुवर्णशैलप्रभवो विष्णुना काश्चनो रसः | तापकिरातचीनेषु यवनेषु विनिर्मितः ॥ ताप्यः सूर्याशुसंतप्तो माधत्रे मासि दृश्यते । मधुरः काञ्चनाभासो साम्लो रजतसंनिभः ॥
For Private and Personal Use Only