________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः] राजनिघण्टुसहितः।
__(५४) *ककृष्ठम् । कङ्गुष्ठं कालकुष्ठं च विरङ्ग रङ्गनायकम् । रेचकं पुलकं हास शोधनं कालपालकम् ॥ १४१॥ ___ गुणाः-कङ्गुष्ठं तिक्तकटुकं वीर्ये चोष्णं प्रकीर्तितम् । गुल्मोदावर्तशूलप्नं रसरक्षं व्रणापहम् ॥ १४२ ॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःकङ्कुष्ठं कालकुष्ठं च विरङ्ग रङ्गदायकम् । रेचकं पुलकं चैव शोधकं कालपालकम् ॥ २००॥ कङ्कुष्ठं च द्विधा प्रोक्तं तारहेमाभ्रकं तथा । गुणाः–कटुकं कफवातघ्नं रेचकं व्रणशूलहृत् ।
(५५) 'भल्लातकः । ( अरुष्करम् ) भल्लातकः स्मृतोऽरुष्को दहनस्तपनोऽग्निकः । अरुष्करो वीरतरुमल्लातोऽनिमुखो धनुः ॥ १४३ ॥
गुणाः-भल्लातः कटुतिक्तोष्णो मधुरः कृमिनाशनः । गुल्मा ग्रहणीकुष्ठान्हन्ति वातकफामयान् ॥ १४४ ॥
राजनिघण्टावाम्रादिरेकादशो वर्ग:भल्लातकोऽग्निर्दहनस्तपनोऽरुष्करोऽनलः । कृमिघ्नस्तैलबीजश्च वातारिः स्फोटबीजकः ॥ २०१ ॥ पृथग्बीजो धनुर्बीजो भल्लातो बीजपादपः । वहिर्वरतरुश्चेति विज्ञेयः षोडशायः ॥ २०२॥ ___* कङ्कष्ठोत्पत्तिः-हिमवत्पादशिखरे कष्टमुपजायते । तत्रकं रक्तकालं स्यात्तदन्यदण्डकं स्मृतम् ॥ १ ॥ पीतप्रभं गुरु स्निग्धं श्रेष्ठं कष्ठमादिशेत् । श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं तथाऽण्डकम् ॥ २ ॥ अन्यच्च हिमवत्पादशिखरे कङ्कटमुपजायते । तत्रैकं नालिकाख्यं च तच्चान्यद्रेणुकं मतम् ॥ ३ ॥ पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कष्ठमादिमम् । श्यावं श्वेतं पीतलघु त्यक्तसत्त्वं हि रेणुकम् ॥ ४ ॥ केचिद्वदन्ति कङ्कष्ठं सद्यो जातस्य दन्तिनः । वर्चश्च श्यावपीताभं रेचनं परिकथ्यते ॥ ५ ॥ कतिचित्तेजिवाहानां नालं कङ्कष्टसहितम् । वदन्ति श्वेतपीताभं तदतीव विरेचनम् ॥ ६ ॥
कङ्कष्ठशोधनम्-कङ्कष्ठं शुद्धिमायाति त्रेधा शुण्ठ्यम्बुभावितम् । रसे रसायनं श्रेष्ठं निःसत्त्वं बहुवैकृतम्॥ ७ ॥ सत्वाकर्षोऽस्य न प्रोक्तो यस्मात्सत्त्वमयं हि तत् । अन्यच्च–जम्बीरवारिणा स्विनाः क्षालिताः कोष्णवारिणा । शुद्धिमायान्त्यमी योज्या भिषरिभर्योगसिद्धये ॥
+ भल्लातकशोधनम्-भल्लातकानि पक्कानि समानीय क्षिपेजले । मजान्ति यानि तत्रैव. शुद्ध्यर्थे तानि योजयेत् ॥ १ ॥ इष्टकाचूर्णनिकीर्घर्षणानिविषं भवेत् ।
१ क. ख. 'दाय । २ क. 'घ्नं सरजन्तुव्र । ३ क. ग. 'तो रुक्षो द।
For Private and Personal Use Only