________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२२
धन्वन्तरीयनिघण्टुः
( ५२ ) सल्लकी ।
सल्लकी वल्लकी हादा सुरभिः सुस्रवा च सा । अश्वमूत्री कुन्दुरुकी गजभक्षा महेरणा || १३५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः – सल्लकी स्यात्कषायाऽतिशीता वीर्ये प्रकीर्तिता । बलासं हन्ति पित्तस्य प्रकोपशमनी मता ।। १३६ ।। अन्यच्च - सल्लकी सुरभिस्तिक्ता कषाया ग्राहिणी रer | कुष्ठास्रकफवातार्शोत्रणदोषार्तिनाशनी ।। १३७ ।।
राजनिघण्टावाम्रादिरेकादशो वर्गः
सल्लकः सल्लकी सल्ली सुगन्धा सुरभिस्रवा । सुरभिर्गजभक्षा च सुवहा गजवल्लभा ॥ १९५ ॥ गन्धमूला मुखामोदा सुश्रीका जलविक्रमा । हेद्या कुण्टरिका चैव प्रोक्ता व्यत्रफला च सा ।। १९६ ।। छिन्नरुहा गन्धफला ज्ञेया चाष्टादशाह्वया ।
गुणाः – सल्लकी तिक्तमधुरा कषाया ग्राहिणी परा । कुष्ठात्रकफवातार्शोत्रणदोषार्तिनाशिनी ॥ १९७ ॥
(५३) *कम्पिल्लकः । ( कम्पिल्लम्, कपिल्लकः )
* कम्पिल्लकोऽथ रक्ताङ्गो रेची रेचनकस्तथा । * रञ्जनो लोहिताङ्गच कम्पिल्लो रक्तचूर्णकः ॥ १३८ ॥
* * ।। १९८ ॥
गुणाः - *कफकासार्तिहारी च जन्तुकुमिहरो लघुः
गुणाः - *कम्पिल्लको विरेची स्यात्कटूष्णो व्रणनाशनः । गुल्मोदरविबन्धाध्मश्लेष्म कृमिविनाशनः ॥ १३९ ॥ ग्रन्थान्तरे - पित्तत्रणाध्मानविबन्धनिघ्नः श्लेष्मोदरार्तिक्रिमिगुल्मवैरी । मूलामशोफणगुल्महारी कम्पिल्लको रेच्यगदापहारी ।। १४० ।।
राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्ग:
* कम्पिल्लकशुद्धिः—साधारणरसानामित्र ज्ञातव्या । + राजनिघण्टौ ' रज्जकः ' इति पाठः ।
[ चन्दनादिः -
For Private and Personal Use Only
१९९ ॥
१ ख श्वपुत्री । २ ज ट ह्रस्वा । ३ ज. ट. कुअरिका ।