________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः] राजनिघण्टुसहितः।
१२१ राजनिघण्टौ चन्दनादिदिशो वर्ग:
भूमिजः । (गुग्गुलुविशेषः) ॥ १९ ॥ गुग्गुलुश्च तृतीयोऽन्यो भूमिजो दैत्यमेदजः । दुर्गाह्लाद इडाजात आशादिरिपुसंभवः ॥ १८८ ॥ मज्जाजो मेदजश्चैव महिषासुरसंभवः ।
गुणाः-गुग्गुलुर्भूमिजस्तिक्तः कटूष्णः कफवातजित् । उमाप्रियश्च भूतघ्नो मेध्यः सौरभ्यदः सदा ॥ १८९ ॥
(५०) कुन्दुरुः (कुन्दरः) कुन्दुरुः स्यात्कुन्दुरुकः शिखरी कुन्द्रगोपुरः । सुकुन्द्रस्तीक्ष्णगन्धश्च पालिन्दो भीषणो बली ॥ १३१ ॥ अन्यच्च-कुन्दरः स्याद्गोपुरकः सौराष्ट्री शिखरी मता।
गुणाः—कुन्दुरुः कटुकस्तिक्तो वातश्लेष्मामयापहः । * पाने लेपे च शिशिरः प्रदरामयशान्तिकृत् ॥ १३२॥
राजनिघण्टौ चन्दनादिदशो वर्गःकुन्दुरुकः सौराष्ट्रः शिखरी कुन्दुरुककुन्दकस्तीक्ष्णः । गोपुरको बहुगन्धः पालिन्दो भीषणश्च दशसंज्ञः ॥ १९० ॥ गुणाः- कुन्दुरुर्मधुरस्तिक्तः कफपित्तातिदाहनुत् । * ॥ १९१ ॥
(५१) श्रीवेष्टकः। (श्रीवेष्टकम्, चाहः) श्रीवष्टको धूपवृक्षः क्षीरः शीर्षः खरद्रुमः । श्रीवासः पायसश्चाहः क्षीरस्रावस्तथा दधि ॥ १३३ ॥
गुणाः-श्रीवेष्टः स्वादुतिक्तस्तु कषायो व्रणरोपणः । कफपित्तास्रजान्हन्ति ग्रहन्तः शीर्षरोगनुत् ।। १३४ ॥
राजनिघण्टौ चन्दनादिदशो वर्गःश्रीवेष्टो वृक्षधूपश्च चीडा गन्धो रसाङ्गकः । श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस्तु वेष्टकः ॥ १९२ ॥ वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः । धूपाङ्गस्तिलपर्णश्च सरलाङ्गोऽपि षोडश ॥ १९३ ॥ ___ गुणाः—श्रीवेष्टः कटुतिक्तश्च कषायः श्लेष्मपित्तजित् । योनिदोषरुजाजीर्णवणनाध्मानदोषजित् ॥ १९४ ॥
१ क. बः फलद्रु।
For Private and Personal Use Only