________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्ट:
[चन्दनादिःगुणाः-पुष्पादिकासीसमतिप्रशस्तं सोष्णं कषायाम्लमतीव नेत्र्यम् । विषानल श्लेष्मगदव्रणनं श्वित्रक्षयघ्नं कचरञ्जनं च ॥ १२६ ॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः*। * ॥ १८१ ॥ गुणाः-पुष्पकासीसकं तिक्तं शीतं नेत्रामयापहम् । लेपेनात्यामकुष्ठादिनानात्वग्दोषनाशनम् ॥ १८२ ॥
(४९) गुग्गुलुः । गुग्गुलु कालनिर्यासो जटायुः कौशिकः पुरः । नक्तंचरः शिवो दुर्गो महिपाक्षः पलंकषा ॥ १२७ ॥
गुणाः-गुग्गुलुः पिच्छलः प्रोक्तः कटुस्तिक्तः कषायवान् । वर्ण्यः स्वर्यो लघुः सूक्ष्मो रूक्षो वातबलासजित् ॥ १२८ ॥ अन्यच्च-गुग्गुलुः प्रथितः स्निग्धः सरोष्णोऽथ कफानिलात् । वस्तिमेदोत्रणान्मेहशोफभूतविकारजित् ॥ १२९ ।। गुग्गुलुर्विषदस्तीक्ष्णः कषायः पिच्छलः कटुः । वर्ण्यः स्वर्यो लघुमेंदी स्निग्धो वातबलासजित् ।। १३० ॥ स नवो बृंहणो वृष्यः पुराणस्त्वतिलेखनः।
राजनिघण्टौ चन्दनादिदशो वर्ग:गुग्गुलुर्यवनद्विष्टो भवाभीष्टो निशाटकः । जटालः कालनिर्यासः पुरो भूतहरः शिवः ॥ १८३ ॥ कौशिकः शांभवो दुर्गो यातुनो महिपाक्षकः । देवेष्टो मरुदेश्योऽपि रक्षोहा रूक्षगन्धकः ॥ १८४ ॥ दिव्यस्तु महिपाक्षश्च नामान्येतानि विंशतिः।
गुणाः--गुग्गुलुः कटुतिक्तोष्णः कफमारुतकासजित् । कृमिवातोदरप्लीहशोफार्मोनो रसायनः ॥ १८५ ॥ राजनिघण्टौ चन्दनादिर्हादशो वर्ग:
कणगुग्गुलुः । ( गुग्गुलुविशेषः ॥ १८ ॥ ___ गन्धराजः स्वर्णकणः सुवर्णः कणगुग्गुलुः । कनको वंशपीतश्च सुरसश्च पलंकृषः॥१८६ ॥
गुणाः--कणगुग्गुलुः कट्टष्णः सुरभिर्वातनाशनः । शूलगुल्मोदराध्मानकफनश्च रसायनः॥१८७ ॥
*गुग्गुलुशोधनम्-काथे हि दशमलस्य चोष्णे प्रक्षिप्य गुग्गुलुम् । आलोड्य वस्त्रपूतं तं चण्डांशुपरिशोषितम् ॥ १ ॥ घृताक्तं पिण्डितं कुर्याच्छुद्धिमायाति गुग्गुलुः । अन्यच्च-दुग्धे वा त्रिफलाक्वाथे दोलायत्रे विपाचितः । वाससा गालितो ग्राह्यः सर्वकर्मसु गुग्गुलुः ॥ २॥
For Private and Personal Use Only