________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३ तृतीयो वर्गः ]
राजनिघण्टु सहितः ।
( ४७ ) राला ।
रालः सर्जरसः शालः क्षणः कलकलोद्भवः । ललनः शालनिर्यासो यक्षधूपोऽग्निवल्लभः ।। १२१ ॥
गुणाः- रालः स्वादुः कषायोष्णः स्तम्भनो व्रणरोपणः ।
विपादिभूतहन्ता च भग्नसंधानकृन्मतः ।। १२२ ।।
राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग:
--
Acharya Shri Kailassagarsuri Gyanmandir
११९
रालः सर्जरसचैव शालः कनकलोद्भवः । ललनः शालनिर्यासो देवेष्टः शीतलस्तथा ।। १७६ || बहुरूपः शालरसः सर्जनिर्यातकस्तथा । सुरभिः सुरधूपश्च यक्षधूपोऽग्निवल्लभः ॥ १७८ ॥ कालः कललजः प्रोक्तो नाम्ना सप्तदशाङ्कितः ।
गुणाः —रालस्तु शिशिरः स्निग्धः कषायस्तिक्तसंग्रहः । वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः ॥ १७८ ॥
(४८) कसीसम् ।
कासी धातुकासीस केसरं तप्तलोमशम् ।
गुणाः -- कासीसं तु कषायोष्णमम्लं वातवलासजित् । विपनेत्ररुजः श्वित्रं हन्ति कुष्ठव्रणानपि ॥ १२४ ॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग:
कासीसं धातुकासीसं केसरं तप्तलोमशम् । शोधनं पांशुकं शीसं शुभ्रं सप्ताह्वयं मतम् ॥ १७९ ॥
गुणाः -- कासीसं तु कषायं स्याच्छिशिरं विषकुष्ठजित् । खर्जूकमिहरं चैव चक्षुष्यं कान्तिवर्धनम् ।। १८० ।।
पुष्पकासीसम् । ( कासीसविशेषः ) ।। १७ ।।
* द्वितीयं पुष्पकासीसं वत्सकं च मलीमसम् । * ह्रस्वं नेत्रौषधं योज्यं विपदं नीलमृत्तिका ॥ १२५ ॥
*कासीसभेदशोधनमारणानि - कासीसं वालुकं ह्येकं पुष्पदूर्वमथापरम् । गुर्वम्लगुरुधूमाभं सोष्णवीर्यविपापहम् ॥ वालुकं पुष्पकासीसं श्वित्रनं केशरञ्जनम् ।
For Private and Personal Use Only
शोधनमारणे1 - सकृद्गङ्गाम्बुना क्लिन्नं कासीसं निर्मलं भवेत् । तुवरी सत्त्ववत्सत्त्वमेतस्यापि समाहरेत् । कासीसं शुद्धिमाप्नोति पुष्पैश्च रजसा स्त्रियाः । वलिना हतकासीसं कान्तं कासीसमारितम् ॥
१ ग. 'दिभनसंधान प्रज्ञोत्सादकरी मता ॥ १२२ ॥