________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११८
धन्वन्तरीयनिघण्टुः
[ चन्दनादिः -
वटसौगन्धिकः (गन्धकविशेषः) ॥ १६ ॥ aritreat गन्धो गन्धको गन्धमादनः । लेलीनो गन्धपापाणो लेलीतश्च निकृन्तकः ॥ ११४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः- त्वग्दोषकुष्टवीसर्पलोहसंहारिसूतहा । रसायनवरो ह्येष कटूष्णो गन्धको मतः ॥ ११५ ॥
(४५) अम्बिका ( माचिका )
माचिका प्रथिताऽम्बष्ठा तथाऽम्बाऽम्बालिकाऽम्विका । अम्बष्ठका कपाया च सा प्रोक्ता मुखवाचिका ।। ११६ ।।
गुणाः - अम्बिका तु रसे तिक्ता तथेोष्णा कफनाशनी । अर्शोघ्नी श्वयथूस्थानपरिपन्थितया स्मृता ॥ ११७ ॥ अन्यच्च — माचिका तु कषाया च कण्ठ्या वातवलासजित् । पित्तप्रकोपशमनी व्रणशोधनरोपणी ॥ ११८ ॥ राजनिघण्टौ शताद्दादिश्चतुर्थो वर्गः
अम्बष्ठाऽम्बालिकाऽम्बाला शठाम्बाऽम्बष्ठिकाऽम्बिका । अम्वा च माचिका चैव दृढवल्का मयूरिका ॥ १७० ॥ गन्धपत्री चित्रपुष्पी श्रेयसी मुखवाचिका । छिनपत्रा भूरिमल्ली विज्ञेया षोडशाह्वया ॥ १७१ ॥
गुणाः - अम्बष्ठा सा कषायाम्ला कफकण्ठरुजापहा । वातामयवलासन्नी चिद्दीपनी परा ।। १७२ ।।
( ४६ ) सिक्थकम् ( सिक्थकः )
सिक्थकं मधुकं सिक्थं मधूच्छिष्टं मधूत्थितम् । मधुशेषं मदनकं मधुजं माक्षिकाश्रयम् ।। ११९ ॥
गुणाः -- सिक्थकं स्निग्धमधुरं भूतघ्नं भग्नसंधिकृत् । हन्ति वीसर्पकण्वादीन्त्रणरोपणमुत्तमम् ।। १२० ।। भेदनं पिच्छलं स्वादु कुष्ठवातास्रजिन्मृदु ।
राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्ग:
सिक्थकं मधुकं सिक्थं मधुजं मधुसंभवम् । मदनकं मधूच्छिष्टं मदनं मक्षिकामलम् ।। १७३ ।। क्षौद्रेयं पीतरागं च स्निग्धं माक्षिकजं तथा । क्षौद्रजं मधुशेषं च द्रावकं माक्षिकाश्रयम् ॥ १७४ ।। मधूपितं च संप्रोक्तं मधूत्थं चोनविंशतिः ।
गुणाः - सिक्थकं कपिलं स्वादु कुष्ठवातार्तिजिन्मृदु | कटु स्त्रिधं च लेपेन स्फुटिताङ्गविरोपणम् ।। १७५ ।।
१ ख. पट्टसौ' ।
For Private and Personal Use Only