________________
Shri Mahavir Jain Aradhana Kendra
३ तृतीयो वर्गः ]
www.kobatirth.org
राजनिघण्टुसहितः ।
( ४४ ) *गन्धकः । गन्धको गन्धपाषाणो लेलीनो गन्धमादनः । पूतिगन्धो बेलिबत्सा गन्धारमा धातुहा बली ।। १०९ ।।
गुणाः- गन्धकः कटुतिक्तोष्णस्तीव्रगन्धोऽतिगन्धकृत् । विपन्नः कुष्ठकण्डुतिकच्छ्रुत्वग्दोषनाशनः ॥ ११० ॥ अन्ये च गन्धकभेदाः - सितः कुठे रसे पोतो रक्तो लोहप्रयोगके । नीलो नानाप्रयोगेषु चतुर्धा गन्धको मतः ॥ १११ ॥ विशेषगुणाः -- गन्धाश्माऽतिरसायनः सुमधुरः पाके कटूष्णान्वितः कण्डूकुष्ठ विसदोषशमनो दीप्तानलः पाचनः । आमोन्मोचनशोपणो विषहरः सूतेन्द्रवीर्यमदो गौरीपुष्पभवस्तथा कृमिहरः सत्त्वात्मकः सूतजित् ॥ ११२ ॥ दोषाः - अपाचितो गन्धक एव कुठं करोति तापं विषमं शरीरे । सौख्यं च रूपं च बलं तथौजः शुक्रं निहन्त्येष करोति चास्रम् ॥ ११३ ॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग:
3
Acharya Shri Kailassagarsuri Gyanmandir
११७
गन्धको गन्धपाषाणो गन्धाश्मा गन्धमादनः । पूतिगन्धोऽतिगन्धश्च वटसौगन्धिकस्तथा ।। १६६ || सुगन्धो दिव्यगन्धश्च गन्धश्च रसगन्धकः । कुष्ठारिः क्रूरगन्धश्व कीटनः शरभूमितः ।। १६७ ।।
गुणाः—गन्धकः कङ्कुरुष्णञ्च तीव्रगन्धोऽतिवह्निकृत् । विषघ्नः कुष्ठकण्डूतिखत्वग्दोषनाशनः ।। १६८ ।। गन्धकभेदाः -- गन्धको वर्णतो ज्ञेयो भिन्नो भिन्नगुणाश्रयः । श्वेतः कुष्ठापहारी स्याद्रक्तो लोहप्रयोगकृत् ।। १६९ ॥ पीतो रसमयोगार्हो नीलो वर्णान्तरोचितः ।
*गन्धकभेदाः— चतुर्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु । श्वेतोऽत्र खटिका प्रोक्तो लेपने गन्धमारणे ॥ तथाऽऽमलकसारः स्याद्यो भवेत्पीतवर्णवान् । शुकषुच्छः स एव स्याच्छ्रेष्ठो रसरसायने ॥ रक्तश्च शुकतुण्डाख्यो धातुवादविधौ वरः । दुर्लभः कृष्णवर्णश्च स
जरामृत्युनाशनः ॥
For Private and Personal Use Only
गन्धकशोधनम् —गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति । तद्रसैः सप्तथा भिन्नो गन्धकः परिशुध्यति ॥ स्थाल्यां दुग्धं विनिक्षिप्य मुखे वस्त्रं निवध्य च । गन्धकं तत्र निक्षिप्य चूर्णितं सिकताकृति ॥ छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् । ज्वालयेत्खर्परस्योर्ध्व वनच्छाणैस्तथोपलैः । दुग्धे निपतितो गन्धो गलितः परिशुध्यति । इत्थं विशुद्ध त्रिफलाज्यभृङ्गम वन्वितः शाणमितो हि लीढः । गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः ||
अन्यच्च शोधनम् — लोहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत् । तप्ते घृते तत्समानं क्षिपेन्धकजं रजः ॥ विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे विनिक्षिपेत् । यथा वस्त्राद्विनिःसृत्य दुग्धमध्येऽखिलं पतेत् ॥ एवं स गन्धर्कः शुद्धो सर्वकर्मोचितो भवेत् ।
१ ङबली । २. 'लिवासा गरौं । ३ त. 'तिकृच्छ्रत्व ।