________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः ] राजनिघण्टुसहितः।
(४१) मैंनःशिला। मनःशिला मनोगुप्ता मनोहा कुनटी शिला । मनोज्ञा नागजिह्वा च गोला नेपालिका कला ॥ ९६ ॥
गुणाः—मनःशिला कटुस्तिक्ता तथोष्णा विषनाशनी । भूतावेशभयं हन्ति प्रलेपतिलकादिभिः ॥ ९७ ॥ अन्यश्च-मनःशिला सर्वरसायनाच्या तिक्ता कटूष्णा कफवातहत्री । सत्त्वात्मिका भूतविषाग्निमान्द्यकण्डूतिकासक्षयहारिणी च ॥ ९८ ॥ अश्मरी मूत्रकृच्छं चेत्यशुद्धा कुरुते शिला । मन्दाग्निं बलद्धिं च शुद्धा सर्वरुजापहा ।। ९९ ॥ दोषाः—मनशिला मन्दबलं करोति जन्तोध्रुवं पाण्डुविपाकहीना । मालानुबन्धं खलु मूत्ररोधं सशर्करं कृच्छ्रगदं करोति ॥१००॥ ___ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः
मनःशिला स्यात्कुनटी मनोज्ञा शिला मनोहाऽपि च नागजिह्वा । नेपालिका स्यान्मनसश्च गुप्ता कल्याणिका रोगशिला दशाहा ॥ १५८ ॥
गुणाः-मनःशिला कटुः स्निग्धा लेखनी विपनाशनी । भूतावेशभयोन्मादहारिणी वश्यकारिणी ॥ १५९ ॥
(४२) सिन्दूरम् । सिन्दूरं रक्तरेणुश्च नागगर्भ च नागजम् । शृङ्गारभूषणं श्रीमद्वसन्तोत्सवमण्डनम् ॥ १०१॥
गुणाः-सिन्दूरमुष्णकटुकं विषदुष्टवणापहम् । त्वग्दोषकुष्ठवीसर्पजीर्णज्वरहरं परम् ॥ १०२॥
राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गः-- * मनःशिलाभेदशोधनसत्त्वपातनानि___सत्राऽऽदो भेदः-मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका । खण्डाख्या चेति तद्रूपं सर्वे तत्परिकथ्यते ॥ श्यामा रक्ता च गौरा च भाराझ्या श्यामिका मता। तेजस्विनी च निर्गौरा ताम्राभा कणवीरका ॥ चूर्णीभूताऽतिरक्ताङ्गी सभारा खण्डपूर्विका । उत्तरोक्तगुणः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता ।। शोधनम्-अगस्त्यपत्रतोयेन भाविता सप्तवासरम् । शृङ्गबेररसैर्वाऽपि विशुध्यति मनःशिला ॥ सत्त्वपातनम् जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसे शिलाम् । दोलायन्त्रे पचेद्यामं याम छागोत्थमूत्रकैः॥ क्षालयेदारनालेन सर्वरोगेषु योजयेत् । अष्टमांशेन किट्टेन गुडगुग्गुलुसर्पिषा ॥ कोष्ठयां रुद्ध्वा दृढं ध्माता सत्त्वं मुश्चेन्मनः शिला। + सिन्दूरशोधनम् -दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः ।
१ ग. ङ. 'क्तवर्णश्च । २ क. इ. वभूषणम् । ३ ग. 'पंशीर्षवणह।
For Private and Personal Use Only