________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४ धन्वन्तरीयनिघण्टुः
[चन्दनादिःगुणाः-धातकी कटुकोष्णा च मदकृद्विषनाशनी । अतिसारहरा गर्भस्थापनी कृमिरक्तनुत् ॥ ९१ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःधातकी वह्निपुष्पी च ताम्रपुष्पी च दाहनी । अग्निज्वाला सुभिक्षा च पार्वती बहुपुष्पिका ॥ १५१ ।। कुमुदा साधुपुष्पी च कुञ्जरा मद्यवासिनी । गुच्छसंघादिपुष्पान्ता ज्ञेया सा लोध्रपुष्पिणी ॥ १५२ ॥ तीव्रज्वाला वह्निशिखा मद्यपुष्पा च विंशतिः ।
गुणाः-धातकी कटुरुष्णा च मदकृद्विषनाशनी । प्रवाहिकातिसारनी विसर्पवणनाशनी ॥ १५३ ॥
(३९) प्रपौण्डरीकम्। प्रपौण्डरीकं चक्षुष्यं पुण्डर्यः पुण्डरीयकम् । सिंतपुष्पं सुपुष्पं स्याच्छ्रीपुष्पं सानुजानुजम् ।। ९२॥
गुणाः-प्रपौण्डरीकं मधुरं कपायं तिक्तशीतलम् । रक्तपित्तव्रणान्हन्ति ज्वरदाहतृषापहम् ॥ ९३ ॥
राजनिघण्टौ चन्दनादिदशो वर्गःप्रपौण्डरीकं चक्षुष्यं पुण्डर्य पुण्डरीयकम् । पौण्डयं च सुपुष्पं च सानुजं चामुजं स्मृतम् ॥ १५४॥
गुणाः—प्रपौण्डरीकं चक्षुष्यं मधुरं तिक्तशीतलम् । पित्तरक्तवणान्हन्ति ज्वरदाहतृषापहम् ॥ १५५ ॥
(४०) करम् । ( करः ) कर्चरो गन्धमूलश्च द्राविडः कार्य एव च । वेधमुख्यो दुर्लभश्च कस्यचिसंमतः सढी ।। ९४ ॥
गुणा:-क—रः कटुतिक्तोष्णो रुच्यो वातवलासजित् । दीपनः प्लीहगु. ल्मार्शःशमनः कुष्ठकासहा ॥ ९५ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:कचूरो द्राविडः कार्शो दुर्लभो गन्धमूलकः । वेधमुख्यो गन्धसारो जटिलश्वाष्टमामकः ॥ १५६ ॥
गुणाः-करः कटुतिक्तोष्णः कफकासविनाशनः । मुखवैशद्यजननो गलगण्डादिदोषनुत् ॥ १५७ ॥
१ झ. शीतपुष्पं । २ क. कार्ष । ३ क. घ, ङ. 'टकेशहा ।
For Private and Personal Use Only