________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः ] राजनिघण्टुसहितः ।
११३ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःभूम्यामली तमाली च ताली चैव तमालिका । उच्चटा दृढपादी च वितुम्ना च वितुन्निका ॥ १४४ ॥ भूधात्री चारुटा वृष्या विषन्नी बहुपत्रिका । बहुवीर्या हि भयदा विश्वपर्णी हिमालया॥१४५ ॥ अजटा चैव वीरा च स्यादित्येषा नवैकधा।
गुणाः-भूधात्री तु कषायाम्ला पित्तमेहविनाशनी । शिशिरा मूत्ररोमातिशमनी दाहनाशिनी ॥ १४६ ॥
(३६) लामजकम् । * लामज्जकं सुनालं स्यादमृणालं लवं लघु। *इष्टकापथकं शीघ्रं दीर्घमूलं जलाश्रयम् ।। ८६ ॥
गुणाः लामज्जकं भवेत्तिक्तं हिमं चात्यन्तमिष्यते । पिचप्रशांन्तिजननं विषरक्तविनाशनम् ॥ ८७॥
राजनिघण्टौ चन्दनादिदशो वर्ग:* * ॥ १४७॥ गुणाः-लामज्जकं हिमं तिक्तं मधुरं वातपित्तजित् । तृड्दाहश्रममूर्छातिरक्तपित्तज्वरापहम् ॥ १४८ ॥
(३७) पद्मकः ( पद्मकम् ) पद्मको मलयश्चारुः पीतरक्तो मरुद्भवः । सुप्रभः शीतवीर्यश्च पाटलापुष्पवर्णकः ॥ ८८ ॥
गुणाः-पद्मकं शिशिरं स्निग्धं कषायं रक्तपित्तनुत् । गर्भस्थैर्यकरं प्रोक्तं ज्वरच्छर्दिविषापहम् ॥ ८९ ॥ * मोहदाहज्वरभ्रान्तिकुष्टविस्फोटशान्तिकृत् ।
राजनिघण्टौ चन्दनादिदशो वर्ग:पद्मकं पीतकं पीतं मालयं शीतलं हिमम् । शुभ्रं केदारजं रक्तं पाटलापुष्पसंनिभम् ॥ १४९ ॥ पद्मकाष्ठं पद्मवृक्षं प्रोक्तं स्यावादशाह्वयम् । गुणाः-पद्मकं शीतलं तिक्तं रक्तपित्तविनाशनम् । * ॥ १५० ॥
(३८) धातुकी (धातकी ) धातकी ताम्रपुष्पी च कुञ्जरा मद्यवासिनी । पार्वतीया सुभिक्षा च वह्निपुष्पा च शब्दिता ॥९० ॥
१ क, ग. ह. रक्तः सुरोद्भ । २ क. , मधुवा ।
For Private and Personal Use Only