________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [ चन्दनादिः
(३३) सप्तपर्णः। सप्तपर्णः शुक्तिपर्णश्छत्रपर्णः सुपर्णकः । सप्तच्छदो गूढपुष्पस्तथा शाल्मलिपत्रकः ॥ ८०॥ ___ गुणाः—त्रिदोषशमनो हृद्यः सुरभिर्दीपनः सरः । शूलगुल्मकृमीन्कुष्ठं हन्ति शाल्मलिपत्रकः ॥ ८१॥
राजनिघण्टौ चन्दनादिदशो वर्गःसप्तवर्णः पत्रवर्णः शुक्तिपर्णः सुपर्णकः । सप्तच्छदो गुच्छपुष्पोऽयुग्मपर्णो मुनिच्छदः ॥ १३८॥ बृहत्त्वग्वहुपर्णश्च तथा शाल्मलिपत्रकः । मदगन्धो गन्धिपर्णो विज्ञेयो वतिभूमितः ॥ १३९ ॥
गुणाः-सप्तपर्णस्तु तिक्तोष्णस्त्रिदोषघ्नश्च दीपनः । मदगन्धो निरन्धेऽयं व्रणरक्तामयकृमीन् ॥ १४०॥
(३४) लाक्षा। लाक्षा पलंकषा रक्ता दीप्तिश्च कृमिजा जतु । क्षतनी रङ्गमाता च द्रुमव्याघिरलक्तकः ॥ ८२॥
गुणाः-- लाक्षा तिक्ता कषायोष्णा स्निग्धा शोणितपित्तनुत् । कृमिश्लेष्मव्रणान्दन्ति भूतज्वरार्तिनाशिनी ॥ ८३ ॥ .
राजनिघण्टौ पिप्पल्यादिः षष्टो वगे:लाक्षा खदिरका रक्ता रङ्गमाता पलंकषा। जतु च कृमिजा चैव द्रुमव्याधिरलत्तकः ॥ १४१ ॥ पलाशी मुद्रणी दीप्तिर्जन्तुका गन्धमादनी। नीला द्रवरसा चैव पिचारिमुनिभूहयः॥ १४२ ॥
गुणाः--लाक्षा तिक्तकषाया स्याच्लेष्मपित्तार्तिदोपनुत् । विपरक्तप्रशमनी विषमज्वरनाशनी ॥ १४३ ॥
(३५) तामलकी । तामलक्यजटा ताली तमालं तु तमालिनी । वितुनभूता तमकं भूधात्री बामलक्यपि ॥ ८४॥
गुणाः-भूधात्री मधुरा तिक्ता वीर्यतः शिशिरा स्मृता । पित्तं हन्ति कफासनी दृष्टिदाहविनाशिनी ॥ ८५ ॥ *
* ग. पुस्तके श्लोकविशेषः___'पित्तश्लेष्महरा रुच्या विषदा सुरभिलघुः ।
नेत्ररोगप्रशमनी व्रणशलविनाशिनी ॥ १ क. ङ. णा:-सप्तपर्णस्त्रिदोषन्नः सु। २ ग. ज्वरचिना ।
For Private and Personal Use Only