________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३ तृतीयो वर्गः ]
राजनिघण्टुसहितः ।
१११
शैलेयं शिलजं वृद्धं शिलापुष्पं शिलोद्भवम् । स्थविरं पलितं जीर्ण तथा कालानुसार्यकम् ।। १३० ।। शिलोत्थं च शिलाददुः शैलजं गिरिपुष्पकम् । शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयम् ।। १३१ ।।
गुणाः शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् । दाहतृष्णावमिश्वासव्रणदोषविनाशनम् ॥ १३२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
( ३१ ) एलवालुकम् ।
* एलावालुकमालूकं वालुकं हरिवालुकम् । एल्वालुकं कपित्थं स्यादुर्वर्ण प्रसरं दृढम् ॥ ७६ ॥
गुणाः – एलावालुः सुगन्धिः स्याच्छीतोऽत्यन्तं प्रकीर्तितः । विषविध्वंसनोऽत्युग्रः कण्डूकुष्ठत्रणान्तकृत् ॥ ७७ ॥ +
राजनिघण्टौ शतादादिचतुर्थो वर्गः -
"
* । एल्वालुकं कपित्थं च दुर्वर्ण प्रसरं दृढम् ।। १३३ ।। एलागन्धिकमेलाई गुप्तगन्धि सुगन्धिकम् । एलाफलं च विज्ञेयं द्विसप्ताह्वयमुच्यते ।। १३४ ॥ गुणाः – एलावालुकमत्युग्रं कषायं कफवातनुत् । मूर्द्धार्तिज्वरदाहांश्च नाशयेद्रोचनं परम् ।। १३५ ॥
(३२) सरलः ( सरलम् )
सरल: पूतिकाष्ठं च चिडा पित्तद्रुमो मतः । दीपवृक्षः स्निग्धदारुः प्रोक्तो मारीचपत्रकः ॥ ७८ ॥
गुणाः – सरलः स्निग्धतिक्तोष्णः कफेमारुतनाशनः । वक्त्रस्रावस्वरभ्रंशनेत्ररोगव्रणान्तकृत् ।। ७९ ।।
राजनिघण्टौ चन्दनादिर्द्वादशो वर्गः
सरलस्तु पूतिकाष्ठं तुम्बी पीतगुरुत्थितोपतरुः । स स्निग्धदारुसंज्ञः स्निग्धो मारीचपत्रको नवधा ।। १३६ ।।
गुणाः सरलः कटुतिक्तोष्णः कफवातविनाशनः । त्वग्दोषशोफकण्डूति - व्रणनः कोष्ठशुद्धिदः ॥ १३७ ॥
+ क. ख. ग. ङ. पुस्तकेषु श्लोकविशेष:
'एलावा लुकमत्युग्रं शोधनं कफवातजित् ।
मूर्छा तिज्वरदाहांश्च नाशयेद्रोचनं परम् ' ॥
१ क. ख. इ. 'त्थं च दुर्वर्णप्र । २ क. ख. ङ. 'फवातविना ।
For Private and Personal Use Only