________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
धन्वन्तरीयनिघण्टुः- __ [चन्दनादिःगुणाः-मुरा तिक्ता कटुः शीता कषाया कफपित्तहृत् । श्वासासग्विषदाहार्तिभ्रममूर्छातृषापहा ॥ १२४॥
(२८) स्थौणेयकम् ( स्थौणेयम् ) स्थौणेयकं बर्हिचूडं शुकपुच्छं शुकच्छदम् । विकर्ण शुकवह च हरितं शीर्णरोमकम् ॥ ६९ ॥
गुणाः-स्थौणेयं कफवातघ्नं सुगन्धि कटु तिक्तकम् । पित्तप्रकोपशमनं बलपुष्टिविवर्धनम् ॥ ७० ॥
राजनिघण्टौ चन्दनादिदशो वर्ग:स्थौणेयकं बर्हिशिखं शुकच्छदं मयूरचूडं शुकपुच्छकं तथा । विकीर्णरोमापि च कीरवर्णकं विकर्णसंज्ञं हरितं नवाह्वयम् ॥ १२५ ॥
गुणाः-स्थौणेयं कफपित्तनं सुगन्धि कटुतिक्तकम् । पित्तप्रकोपशमनं वलपुष्टिविवर्धनम् ॥ १२६ ॥
(२९) चोरकः ( चोरकम् ) *चोरकः शङ्कितश्चण्डा दुष्पत्रः क्षेमको रिपुः । गणहासः कोपनकः कितवः फलचोरकः ॥ ७१ ॥
गुणाः-चोरकः शिशिरोऽत्यन्तं विपरक्तान्तकारकः । कुष्ठकण्डूव्रणान्हन्ति क्षणादोषान्प्रयोगतः ॥ ७२ ॥ चोरकश्चोग्रगन्धश्च तिक्तः कृमिसमीरजित् ।
राजनिघण्टौ चन्दनादिादशो वर्गः* । चपला कितवो धूर्तः पटुर्नीचो निशाचरः ॥ १२७ ॥गणहासः कोपनकश्चौरकः फलचोरकः । दुष्कुलो ग्रन्थिलश्चैव सुग्रन्थिः पर्णचोरकः॥ १२८॥ ग्रन्थिपर्णो ग्रन्थिदलो ग्रन्थिपत्रस्त्रिनेत्रधा। . गुणाः-चोरकस्तीवगन्धोष्णस्तिक्तो वातकफापहः । नासामुखरुजाजीर्णकृमिदोषविनाशनः ॥ १२९ ॥
(३०) शैलेयम् । शैलेयं पलितं वृद्धं जीर्ण कालानुसार्यकम् । स्थविरं च शिलाददुः शिलापुष्पं शिलोद्भवम् ॥ ७३ ॥
गुणाः-शैलेयकं हिमं प्रोक्तं दाहजिद्विषनाशनम् । रक्तदोपहरं चैव कण्डूनिर्मूलनं स्मृतम् ।। ७४ ॥ शैलेयं तिक्तकं शीतं सुगन्धि कफपित्तजित् । दाहतृष्णावमिश्वासवणदोषविनाशनम् ॥ ७५ ॥
राजनिघण्टौ चन्दनादिदशो वर्ग:
For Private and Personal Use Only