________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३ तृतीयो वर्गः ]
राजनिघण्टुसहितः ।
गुणाः - बोलं तु कटुतिक्तोष्णं कषायं रक्तदोषनुत् । कफपित्तामयान्हन्ति प्रदरादिरुजापहम् ।। ११८ ॥
(२६) दमनम् । (दमनः, दमनकम् )
दमनः पाण्डुरागः स्याद्दान्तो गन्धोत्कटा मुनिः । पुण्डरीको ब्रह्मजय तपस्वी ऋषिपुत्रकः ॥ ६४ ॥
गुणाः – दमनः स्याद्रसे तिक्तो विषन्नो भूतदोषत् । त्रिदोषशमनो हृद्यः कण्डुकुष्ठापहः स्मृतः ।। ६५ ।।
राजनिघण्टौ करवीरादिर्दशमो वर्ग:
अथ दमनकस्तु दमनो दान्तो गन्धोत्कटो मुनिर्जटिलः । दण्डी च पाण्डुरागो ब्रह्मजटा पुण्डरीकश्च ।। ११९ ।। तापसपत्रः पत्री पवित्रको देवशेखरचैव । कुलपत्रश्च विनीतस्तपस्विपत्रश्च सप्तधात्रीकः ।। १२० ।।
गुणाः- दमनः शीतलतिक्तः कषायकटुकश्च कुष्ठदोषहरः । द्वंद्वत्रिदोषशमनो विषविस्फोटविकारहरणः स्यात् ।। १२१ ।।
दमः ( दमनविशेषः ) || १४ ॥
दमनोऽन्यो दमः शान्त ऋषिर्दमवशान्वितः । क्षमाशान्तिपरः साधुः साधुकः साधुगन्धिकः ॥ ६६ ॥
राजनिघण्टौ करवीरादिर्दशमो वर्ग:
S
Acharya Shri Kailassagarsuri Gyanmandir
अन्यश्च वन्यदमनो वनादिनामा च दमनपर्यायः ।
गुणाः वीर्यस्तंभनकारी बलदायी चाऽऽमदोषहारी च ।। १२२ ।।
(२७) मुरा ।
मुरा गन्धवती दैत्या गन्धाढ्या गन्धमालिनी । सुरभिर्भूरिगन्धा च कुटी. गन्धकुटी स्मृता ॥ ६७ ॥
गुणाः - * मुराऽत्यन्तं भवेच्छीता तिक्ता सुरभिगन्धिनी । क्षिणोति क्षतपुआंव पित्तशान्ति नियच्छति ॥ ६८ ॥
राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग:
मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी । सुरभिर्भूरिगन्धा च कुटी गन्धकुटी तथा ।। १२३ ॥
*क, ङ. पुस्तकयोः श्लोकविशेषोऽयं दृश्यते
१०९
'मुरा तिक्ता कटुः शीता कपाया कफवातजित् । श्वासास्रविषदाहातिश्रममूर्छातृपापहा ॥
,
For Private and Personal Use Only