________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[चन्दनादिः(१५) लवङ्गम् । लवङ्ग देवकुसुमं भृङ्गारं शिखरं लवम् । दिव्यं चन्दनपुष्पं च श्रीपुष्पं वारिसंभवम् ॥४१॥
गुणाः-लवङ्गं कुसुमं हृद्यं शीतलं पित्तनाशनम्। चक्षुष्यं विषहृदृष्यं माङ्गल्यं मूर्धसेगहृत् ॥ ४२ ॥
सजनियष्टौ चन्दनादिदशो वर्गः-- लवनकालिका दिव्यं लवङ्ग शेखरं लवम् । श्रीपुष्पं देवकुसुमं रुचिरं वारिसंभक्प् ॥ ८४ ॥ तीक्ष्णपुष्पं तु भृङ्गाङ्गी गीर्वाणकुसुमं तथा । पुष्पकं चन्दनादि स्याज्ज्ञेयं च द्वादशाहयम् ॥ ८५ ॥ __गुणाः-लवङ्गं शीतलं तिक्तं चक्षुष्यं भुक्तरोचनम् । वातपित्तकफन्नं च तीक्ष्णं मूर्धरुजापहम् ॥ ८६ ॥
अपि च-लवङ्गं सोष्णकं तीक्ष्णं विपाके मधुरं हिमम् । वातपित्तकफामनं क्षयकासास्रदोषनुत् ॥ ८७ ॥
(१६) नलिका। नलिका विद्रुमलता कपोतचरणा नली । सुषिरा धमनी शून्या निर्मथ्या नर्तकी नटी ॥४३॥
गुणाः-नलिका रक्तपित्तनी चक्षुष्या विपनाशनी । नलिका वातला तिक्ता गुर्वी च मधुरा हिमा ॥ ४४ ॥
राजनिघण्टौ चन्दनादिादशो वर्ग:नलिका विद्रुमलतिका कपोतवाणा नली च निर्मथ्या । सुपिरा धमनी स्तुत्या रक्तदला नर्तकी नटी रुद्राः॥ ८८॥
गुणाः-नलिका तिक्तकटुका तीक्ष्णा च मधुरा हिमा । कृमिवातोदरीयंशःशूलनी मलशोधनी ॥ ८९ ॥
(१७) मांसी ( नलदम् ) मांसी कृष्णजटा हिंस्रा नलदा जटिला मिशी । जटा च पिशिता पेशी क्रव्यादी च तपस्विनी ॥ ४५ ॥
गुणाः-मांसी स्वादुकपाया स्यात्कफपित्तास्रनाशनी । विपमारुतहरल्या त्वचाकान्तिप्रसादनी ॥ ४६॥ १ क. स्व. ङ. शृङ्गारं। २ क, ख. ङ. शिशिरं । छ. शेखरं । ३ ज. प्यं भक्त। ४ द. रामार्शः।
For Private and Personal Use Only