________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः] राजनिघण्टुसहितः।
राजनिघण्टौ चन्दनादिदशो वर्ग:मांसी तु जटिला मांसी क्रव्यादी पिशिता मिशी । केशनी च जटा हिंसा जटामांसी च मांसिनी ॥ ९० ॥ जटाला नलदा मेपी तामसी चक्रवर्तिनी। माता भूतजटा चैव जननी च जटावती ॥ ९१॥ मृगभक्षाऽपि चेत्येता एकविंशतिधाऽभिधाः।
गुणाः-सुरभिस्तु जटामांसी कपाया कटुशीतला। कफहद्भुतदाहन्नी पित्तनी मोदकान्तिकृत् ॥ ९२ ॥
गन्धमांसी (मांसीविशेषः) ॥ १२ ॥ द्वितीया गन्धमांसी स्यात्केशी भूतजटा स्मृता । पिशाची पूतना केशी भूतकेशी च लोमशा ॥ ४७ ॥
गुणाः-मांसीद्वयं कपायं च वर्ण्य पित्तकफापहम् । रक्षोन्नं च सुमाथि स्याद्वातघ्नं केश्यमुत्तमम् ॥४८॥
राजनिघण्टौ चन्दनादिद्वादशो वर्ग:द्वितीया गन्धमांसी च केशी भूतजटा स्मृता । पिशाची प्रतना चैव सतकेशी च लोमशा ॥ ९३ ॥ जटाला लघुमांसी च ख्याता अङ्कभिताया
गुणाः-गन्धमांसी तिक्तशीता कफकण्ठामयापहा । रक्तपित्तहरा अध्या विषभूतज्वरापहा ॥ ९४ ॥ राजनिघण्टौ चन्दनादिदशो वर्गः
आकाशमांसी ( मांसीविशेषः ) ॥ १३ ॥ आकाशमांसी सूक्ष्माऽन्या निरालम्बा खसंभवा । सेवाली सूक्ष्मपत्री च गौरी पर्वतवासिनी ॥ ९५ ॥
गुणा:--अभ्रमांसी हिमा शोफत्रणनाडीरुजापहा । लूतागर्दभजालादिहारिणी वर्णकारिणी ॥ ९६ ॥
(१८) कुष्ठम् । कुष्ठं रोगोऽगदो व्याधिरुत्पलं पाकलं रुजा। वाप्यं वानीरजं रामं कौबेरं पारिभद्रकम् ॥ ४९ ॥
गुणाः-कुष्ठं कष्ण तिक्तं स्यात्कफमारुतैरक्तजित् । त्रिदोषविपकडूश्च कुष्ठरोगांश्च नाशयेत् ॥ ५० ॥
१ज. पेशी। २ क, ख. ग.तपित्तजि ।
For Private and Personal Use Only